मूलम्
अनिष्टादिकारिणामपि च श्रुतम् ।
टीका
गच्छन्ति ते सर्व इति श्रुत्याऽनिष्टादिकारिणाम् । अपि चान्द्रमसप्राप्तिः भवतीति विशङ्कते ॥ [299]
मूलम्
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात्।
टीका
चन्द्रारोहावरोहो तु यातनां यम शासने । अनुभूयैवेतरेषां इति तद्गति दर्शनात् ॥ [300]
मूलम्
स्मरन्ति च।
टीका
सर्वे चैव वशं यान्ति यमस्य भगवन्किल । इति स्मृत्या च तेषां तु यमवश्यत्वशंसनात् ॥ [301]
मूलम्
अपि सप्त।
टीका
सप्त चैषां रौरवादि लोका(ः) इति च गम्यते । यातनां त्वनुभूयाथो तत्रापि गतिरुच्ते ॥ [302]
मूलम्
तत्रापि तद्व्यापारादविरोधः।
टीका
यमस्य शासनादेव पापिनां यातना भवेत् । तत्रापि तत्स्मृतिरेव विरोधो नैव विद्यते ॥ [303]
मूलम्
विद्याकर्मणोरिति तु प्रकृतत्वात्।
टीका
अनिष्टादिकृतां नैव पितृयाण पथाद्गतिः । विद्यायास्सुकृतस्यापि फलं मार्गद्वयं स्मृतम् ॥ [304]
मूलम्
न तृतीये तथोपलब्धेः।
टीका
तृतीयस्थानवाच्यानां पापिनां नैव विद्यते । पञ्चमाहुत्यपेक्षा तु नेति देहाय च श्रुतेः ॥ [305]
मूलम्
स्मर्यतेऽपि च लोके।
टीका
पुण्यकर्मवतां चापि केषांचिद् देहसम्भवे । पञ्चमाहुत्यपेक्षा न द्रौपद्यादिषु दृश्यते ॥ [306]
मूलम्
दर्शनाच्च।
टीका
पञ्चमाहुत्यभावेन जायस्वेति च दर्शनात् । उद्भिज्जस्वेदजानां तु देहोत्पत्तिस्तथा भवेत् ॥ [307]
मूलम्
तृतीयशब्दावरोधः संशोकजस्य।
टीका
उद्भिज्जमिति शब्देन स्वेदजस्यापि संग्रहः । श्रुत्युक्तेन तृतीयेन ह्याण्डजाज्जीवजात्परम् ॥ [308]