मूलम्
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च।
टीका
कृतकर्मात्यते जीवः भुक्ताच्छिष्टेन कर्मणा । यथागतं चान्यथा चाप्यवरोहति शब्दतः ॥ [295]
मूलम्
चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः।
टीका
आचारवाचिचरणश्रुत्या कर्म न चेति चेत् । कर्मोपलक्षणार्थेति कार्ष्णाजिनिरिहाब्रवीत् ॥ [296]
मूलम्
आनर्थक्यमिति चेन्न तदपेक्षत्वात्।
टीका
आचारस्य त्वकर्मकत्वे वैयर्थ्यमितिचेन्नहि । आचाराणामपेक्ष्यत्वात् कर्मणेति तु मन्यते ॥ [297]
मूलम्
सुकृतदुष्कृते एवेति तु बादरिः।
टीका
श्रुतौ चरणशब्देन पुण्यपापे च कर्मणी । उच्यते चेति साक्षाद्धि बादरिर्मनुते मुनिः ॥ [298]