मूलम्
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ।
टीका
देहाद्देहान्तरप्राप्तौ आत्मा गच्छति सूक्ष्मकैः । भूतैरेव परिष्वक्तः प्रश्नप्रत्युक्ति दर्शनात् ॥ [288]
मूलम्
त्र्यात्मकत्वात्तु भूयस्त्वात्।
टीका
त्र्यात्मकत्वात्तु भूतानां त्रिवित्करणतस्तथा । आधिक्याद्व्यपदेशः स्यात् नाम्भसा याति केवलम् ॥ [289]
मूलम्
प्राणगतेश्च।
टीका
इन्द्रियाणां तेन गतेः तदाधारतया तनोः । भूतसूक्ष्मशरीरेण गच्छतीति च गम्यते ॥ [290]
मूलम्
अग्न्यादिश्रुतेरिति चेन्न भाक्तत्वात्।
टीका
अग्न्यादिषु गतिश्रुत्या जीवेन गमनं कथम् । तेषामिति नवक्तव्यं अभिमानिपरा हि सा ॥ [291]
मूलम्
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः।
टीका
प्रथमेऽश्रवणाद्धोमे ह्यपां तन्नेति चेन्नहि । ते श्रद्धां जुह्वतीत्यत्र ह्याप एवोपपत्तितः ॥ [292]
मूलम्
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः।
टीका
अश्रुतत्वाच्च जीवस्य परिष्वङ्गः कथं च तैः । इति चेन्नात्र यज्ञादिकारिणां गमनश्रुतेः ॥ [293]
मूलम्
भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति।
टीका
तं देवा(ः) भक्षयन्तीति भक्षणं गौणमेवहि । अनात्मवित्वात्तेषां तु पशुतुल्यत्वकीर्तनात् ॥ [294]