मूलम्
संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्।
टीका
चतुर्मुखतनोरेव जगत्सृष्टिः परात्मनः । नामरूपादिकरणं त्रिवृत्कुर्वत एव हि ॥ [285]
मूलम्
मांसादि भौमं यथाशब्दमितरयोश्च।
टीका
श्रुते तु मांसमनसी भौमे चैवमवादिषु । अन्नं चाशितमित्यादौ त्रिवृतां करणं न हि ॥ [286]
मूलम्
वैशेष्यात्तु तद्वादस्तद्वादः ॥
टीका
त्रिवृत्कृतेषु भूतेषु चाधिक्यं यस्य वै भवेत् । तत्तद्वाचकशब्देन तत्तद्वस्तूच्यते बुधैः ॥ [287]