32 इन्द्रियाधिकरणम्

मूलम्

त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्।

टीका

करणत्वेऽपि सर्वेषां श्रेष्टादन्यत्र शंसनात् । इन्द्रियाणीति न श्रेष्ट(ः) इन्द्रियं भवति ह्यसौ ॥ [283]

मूलम्

भेदश्रुतेर्वैलक्षण्याच्च।

टीका

समनस्केन्द्रियोभ्योऽस्य भेदेनोत्पत्ति शंसनात् । सुषुप्तौ च प्राणवृत्तेः उपलब्ध्या विशेषतः ॥ [284]