मूलम्
ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात्।
टीका
ज्यातिरादेस्तु जीवेन सङ्कल्पात्परमात्मनः । इन्द्रियादेरधिष्टानं शब्दादेवावगम्यते ॥ [281]
मूलम्
तस्य च नित्यत्वात्।
टीका
परात्माधिष्टितत्वस्य नित्यत्वाजजगतां सताम् । अवर्जनीयसङ्कल्पादधिष्टानं ततो भवेत् ॥ [282]