मूलम्
न वायुक्रिये पृथगुपदेशात्।
टीका
पृथगुत्पत्ति वचनात् न वायुर्न च तत्क्रिया । विशेषं कंचनापन्नः वायुः प्राण(ः) इति स्थितम् ॥ [276]
मूलम्
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः।
टीका
वाय्ववस्थाभेद(ः) इति नायं भूतान्तरं भवेत् । इन्द्रियैस्सह शिष्ट्यादेः प्राणसंवादनादिषु ॥ [277]
मूलम्
अकरणत्वाच्च न दोषस्तथा हि दर्शयति।
टीका
अक्रियत्वाद्दोष उक्तो यः प्राणस्य स नैव हि । शरीरादेर्धारणादिक्रियावत्वेन कीर्तनात् ॥ [278]
मूलम्
पञ्चवृत्तिर्मनोवत् व्यपदिश्यते।
टीका
कामादि वृत्तिभेदेन मनस्सङ्कीर्त्यते यथा । तथैकः पञ्चधा वृत्तेः प्राणापानादिरुच्यते ॥ [279]