मूलम् अणवश्च। टीका अणवस्त्विन्द्रियाणीति ह्यनुगत्यादिना श्रुताः । उपासार्थमनन्ता(ः) इत्येतानि गदितानि हि ॥ [274] मूलम् श्रेष्ठश्च। टीका श्रेष्टश्चोत्पद्यते प्राणस्त्वाकाशादिवदस्य हि । एतस्माज्जायते प्राण(ः) इत्युत्पत्तिश्रुतेरिह ॥ [275]