मूलम्
तथा प्राणाः।
टीका
खादिवच्चत्विन्द्रियाणि ह्युत्पद्यन्ते परात्मनः । सृष्टेः पूर्वं स्थिताः प्राणा(ः) इति ब्रह्म परं हि तत् ॥ [269]
मूलम्
गौण्यसंभवात्तत्प्राक् श्रुतेश्च।
टीका
प्राक्सृष्टेरेवमेवेति ब्रह्मैकपरिशेषणात् । प्राणा(ः) वा ऋषय(ः) इति गौणी बहुवचश्श्रुतिः ॥ [270]
मूलम्
तत्पूर्वकत्वाद्वाचः।
टीका
तत्सृष्टिपूर्वकत्वाच्च नामधेयस्य वस्तुनः । प्राणशब्दैर्नेन्द्रियाणि ह्युच्यन्त इति निश्चितम् ॥ [271]