मूलम्
अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके।
टीका
जीवस्तु ब्रह्मणो ह्यंशः नानात्वव्यपदेशतः । अभेदव्यपदेशाच्च ब्रह्म दाशा इति ह्यपि ॥ [258]
मूलम्
मन्त्रवर्णात्।
टीका
पादोऽस्य विश्वा भूतानीत्येवमादेश्च मन्त्रतः । अंशा(ः) ब्रह्मण एवैते ह्यात्मान इति निश्चितम् ॥ [259]
मूलम्
अपि स्मर्यते।
टीका
ममैवांशो जीवलोक(ः) इति स्मृत्यापि चोच्यते । वासुदेवस्यांश(ः) इति तस्य ब्रह्मशरीरता॥ [260]
मूलम्
प्रकाशादिवत्तु नैवं परः।
टीका
ब्रह्मांशत्वेऽपि जीवस्य जीवभावः परे न हि । प्रभादीनां स्वभावस्तु न मण्यादौ यथा भवेत् ॥ [261]
मूलम्
स्मरन्ति च।
टीका
एकदेशस्थितस्याग्नेः ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणश्शक्तिः तथैवेदमिति स्मृतेः ॥ [262]
मूलम्
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्।
टीका
ब्रह्मांशत्वेऽपि जीवानां अनुज्ञापरिहारयोः । उपपत्तिर्देहभेदात् अग्न्यादेरिव युज्यते ॥ [263]
मूलम्
असन्ततेश्चाव्यतिकरः।
टीका
प्रतिदेहं च भिन्नत्वात् अणुत्वेन च तत्र तु । सुखदुःखाव्यतिकरः निश्चितो मुनिसत्तमैः ॥ [264]
मूलम्
आभास एव च।
टीका
आभासा हेतवस्सर्वे भवेयुरिति निश्चितम् । ब्रह्माभेदे तु जीवस्य तिरोधानादिकल्पने ॥ [265]
मूलम्
अदृष्टानियमात्।
टीका
अदृष्टजोपाधिमूल-ब्रह्मजीवात्मकल्पनम् । अदृष्टानियमात्तेषां न सिद्ध्येदिति निश्चितम् ॥ [266]
मूलम्
अभिसन्ध्यादिष्वपि चैवम् ।
टीका
अभिसन्धेस्त्वदृष्टादि जायते चेति चेन्न हि । नियमस्त्वभिसन्ध्यादौ वक्तुं नैव भवेद्यतः ॥ [267]
मूलम्
प्रदेशभेदादिति चेन्नान्तर्भावात्।
टीका
अविद्योपहितो भागः जीवश्चेन्नियमो भवेत् । नान्तर्भावादिहोपाधेः गमेऽनुपहितस्य च ॥ [268]