मूलम्
परात्तु तच्छ्रुतेः।
टीका
परमात्मायत्तमेव कर्तृत्वं त्वात्मनो भवेत् । अन्तः प्रविष्टश्शास्तेति वदतीयं श्रुतिस्तथा ॥ [256]
मूलम्
कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः।
टीका
निषेधविध्योस्सिद्ध्यर्थं जीवोद्योगमपेक्ष्य सः । प्रवर्तयति तं चेति पराधीना हि कर्तृता ॥ [257]