मूलम्
कर्ता शास्त्रार्थवत्त्वात्।
टीका
अयमात्मा तु कर्तैव यागध्यानविधायिनाम् । शास्त्राणामर्थवत्त्वाय गुणानां तु न कर्तृता ॥ [249]
मूलम्
उपादानाद्विहारोपदेशाच्च।
टीका
इन्द्रियाणामुपादानाद्विहारादिश्रुतेरयम् । कर्ता चात्मेति कर्तृत्वं निश्चितं त्वात्मनस्त्विह ॥ [250]
मूलम्
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः।
टीका
विज्ञानं यज्ञं तनुत इत्यादिव्यपदेशतः । क्रियायां कर्तृता तस्य न चेद्भाव्यं तृतीयया ॥ [251]
मूलम्
उपलब्धिवदनियमः।
टीका
प्रकृतेश्चैव कर्तृत्वेऽकर्तृत्वे ह्यात्मनोपि च । उपलम्भानियमवत् फलस्यानियमो भवेत्॥ [252]
मूलम्
शक्तिविपर्ययात्।
टीका
तस्या(ः) एव तु कर्तृत्वे भोक्तृत्वं प्रकृतेर्भवेत् । अन्यस्य भोक्तृभावात्तु भोक्तृत्वं चास्य हीयते ॥ [253]
मूलम्
समाध्यभावाच्च।
टीका
मोक्षसाधनभूतस्य समाधेरप्यसंभवात् । प्रकृतेरन्य(ः) इत्यादेः आत्मनस्त्वेव कर्तृता ॥ [254]
मूलम्
यथा च तक्षोभयथा।
टीका
वास्यादिसन्निधानेऽपि तक्षवत्कुरुते ह्ययम् । कर्ता चैवमकर्ता च देहीच्छात्तदभावतः ॥ [255]