मूलम्
ज्ञोऽत एव।
टीका
ज्ञानस्वरूपो ज्ञाता च नित्यमात्मेति निश्चितम् । पश्यन् रमते विज्ञानघन(ः) इत्यादितः श्रुतेः ॥ [235]
मूलम्
उत्क्रान्तिगत्यागतीनाम् ।
टीका
उत्क्रान्तिवचनाच्चैव गतेरपि च कीर्तनात् । आगतेश्चापि वचनात् आत्माऽणुरिति कथ्यते ॥ [236]
मूलम्
स्वात्मना चोत्तरयोः।
टीका
गत्यागत्योस्स्वात्मनैव संपाद्यत्वादिहात्मनः । अणुत्वं निश्चितमिति शङ्का नैवात्र युज्यते ॥ [237]
मूलम्
नाणुरतच्छुतेरिति चेन्नेतराधिकारात्।
टीका
आत्मा महानिति श्रुत्या नाणुरात्मेति चेच्छ्रुतिः । परमात्मपरा सेति जीवोऽणुरिति निश्चितम् ॥ [238]
मूलम्
स्वशब्दोन्मानाभ्यां च।
टीका
अणुरात्मेति वचनादणुत्वं चात्मनो भवेत् । आराग्रमात्रो ह्यवर(ः) इत्युन्मानाच्च निश्चितम् ॥ [239]
मूलम्
अविरोधश्चन्दनवत्।
टीका
अणुत्वेऽप्यात्मनो देहे सर्वत्र सुखभागिता । एकदेशस्थितस्यापि चन्दनस्येव युज्यते ॥ [240]
मूलम्
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि।
टीका
अवस्थितेस्तु वैशेष्याच्चन्दनं तु तथा भवेत् । इति चेन्नात्मनोऽपि स्वे हृदये स्थितिरुच्यते ॥ [241]
मूलम्
गुणाद्वाऽऽलोकवत्।
टीका
आत्मा तु स्वगुणाज्ज्ञानाद्देहं व्याप्य सुखं भजेत् । आलोकादेव मण्यादिः कृत्स्नं व्याप्य प्रकाशयेत् ॥ [242]
मूलम्
व्यतिरेको गन्धवत्तथा हि दर्शयति।
टीका
जानामीति प्रतीत्यैव ज्ञानं ज्ञातुः पृथग्भवेत् । गन्धवत्याः पृथिव्यास्तु यथा गन्धस्तथा श्रुतेः ॥ [243]
मूलम्
पृथगुपदेशात्।
टीका
विज्ञातुर्न हि विज्ञातेः इति श्रुत्यात्र चात्मनः । पृथग्ज्ञानस्य वचनात् ज्ञानं तस्मात्पृथक् भवेत् ॥ [244]
मूलम्
तद्गुणसारत्वातु तद्व्यपदेशः प्राज्ञवत्।
टीका
तज्ज्ञानगुणसारत्वाज्ज्ञानमित्यात्मनो भवेत् । ब्रह्मवद्व्यपदेशोऽपि सत्यं ज्ञानमिति श्रुतेः ॥ [245]
मूलम्
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्।
टीका
सर्वदात्मगुणत्वाच्च न दोषो ज्ञानकीर्तने । यथा तादृग्गोत्वयोगाद्व्यपदेशश्च गौरिति॥ [246]
मूलम्
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्।
टीका
सुषुप्तौ विद्यमानस्य ज्ञानस्यैवोद्भवस्त्विह । बाल्ये तु विद्यमानस्य पुंस्त्वादेरिव यौवने ॥ [247]
मूलम्
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा।
टीका
विभुत्वे चात्मनो नित्यं ज्ञानत्वेऽपि च सर्वदा । उपलब्धिरभावश्च नियमोऽन्यतरस्य वा ॥ [248]