21 आत्माधिकरणम्

मूलम्

नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः।

टीका

आत्मा नोत्पद्यते श्रुत्या नित्यत्वाच्चेति गम्यते । नित्यत्वं चात्मनो नित्यो नित्यानामिति च श्रुतेः ॥ [234]