मूलम्
तेजोऽतस्तथा ह्याह ।
टीका
तेजश्च वायोस्संभूतं तस्य न ब्रह्मकार्यता । वायोरग्निरिति श्रुत्या शङ्कते वायुकार्यताम् ॥ [226]
मूलम्
आपः ।
टीका
आपश्च तेजसा सृष्टाः ब्रह्मकार्यं कथं च ताः । अग्नेराप(ः)इति श्रुत्या निश्चिता(ः)इति शङ्कते ॥ [227]
मूलम्
पृथिवी ।
टीका
पृथिवी चाद्भ्यस्संभूता तस्मान्न ब्रह्मजा हि सा । ब्रह्मकार्यं कथं सेति शक्यं वक्तुं विशेषतः ॥ [228]
मूलम्
अधिकाररूपशब्दान्तरेभ्यः ।
टीका
ता(ः) अन्नमसृजन्तेति पृथिव्यास्सृष्टिरुच्यते । भूताधिकाररूपान्यशब्देभ्योऽन्नं धरेति च ॥ [229]
मूलम्
तदभिध्यानादेव तु तल्लिङ्गात्सः ।
टीका
बहु स्यामिति संकल्पात् निजसृष्ट्यादिलिङ्गतः । पूर्वपूर्वशरीरस्सन् सृजतीशः परं परम् ॥ [230]
मूलम्
विपर्ययेण तु क्रमोऽत उपपद्यते च ।
टीका
आनन्तर्यक्रमादत्र पारम्पर्यविपर्ययात् । तत्तच्छरीरात्सृष्ट्यादि ब्रह्मणस्तूपपद्यते ॥ [231]
मूलम्
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात् ।
टीका
तन्मात्रभूतयोर्मध्ये चेन्द्रियाणीति लिङ्गतः । क्रमोत्पत्तिश्चेति चेन्न साक्षादेवाविशेषतः ॥ [232]
मूलम्
चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशोऽभाक्तस्तद्भावभावित्वात् ।
टीका
चराचराश्रयाश्शब्दाः वाचकाः परमात्मनः । सर्ववस्तुप्रविष्टत्वान्मुख्यास्सर्वशरीरिणि ॥ [233]