19 वियदधिकरणम्

मूलम्

न वियदश्रुतेः ।

टीका

उत्पत्तिवचनाभावान्नोत्पत्तिर्वियतो विभोः । नित्यत्वाच्चात्मन(ः) इव निरंशस्येति शङ्कते ॥ [217]

मूलम्

अस्ति तु ।

टीका

श्रुत्या चात्मन(ः) आकाशस्संभूत(ः) इति शंसनात् । उत्पत्तिर्विद्यते तस्य त्वाकाशस्येति निश्चितम् ॥ [218]

मूलम्

गौण्यसंभवाच्छब्दाच्च ।

टीका

स्यात्संभूतिश्रुतिर्गौणी व्योम्न उत्पत्त्यसंभवात् । तेजःप्राथम्ययोगाच्च ह्यमृतत्वश्रुतेरपि ॥ [219]

मूलम्

स्याच्चैकस्य ब्रह्मशब्दवत् ।

टीका

संभूतशब्दस्यैकस्य गौणत्वं मुख्यताऽपि च । ब्रह्मशब्दस्येव चात्राप्यनुषक्तस्य मुख्यता ॥ [220]

मूलम्

प्रतिज्ञाऽहानिरव्यतिरेकात् ।

टीका

प्रतिज्ञाया(ः) अहानिः स्यात् कार्यत्वाद्वियतश्च हि । छान्दोग्येऽपि वियत्सृष्टिरभिप्रेतेति गम्यते ॥ [221]

मूलम्

शब्देभ्यः ।

टीका

सदेव सोम्यैतदात्म्यमिदमित्यादिशब्दतः । ब्रह्म प्रति शरीरत्वाद्वियतो ब्रह्मकार्यता ॥ [222]

मूलम्

यावद्विकारं तु विभागो लोकवत् ।

टीका

ऐतदात्म्यमिदं सर्वमिति श्रुत्या विकारता । सर्वस्यापि तथोत्पत्तिः ब्रह्मणो लोकवद्भवेत् ॥ [223]

मूलम्

एतेन मातरिश्वा व्याख्यातः ।

टीका

तथाऽमृतस्यापि वायोराकाशाद्वायुरित्यतः । शब्दात्तु ब्रह्मकार्यत्वं व्याख्यातमिति निश्चितम् ॥ [224]

मूलम्

असंभवस्तु सतोऽनुपपत्तेः ।

टीका

सर्वहेतोः परस्यैव नोत्पत्तिस्संभवेत् क्वचित् । प्रतिज्ञानुपपत्तेश्च तदन्यज्जायतेऽखिलम् ॥ [225]