17 पशुपत्यधिकरणम्

मूलम्

पत्युरसामञ्जस्यात्।

टीका

मतं पशुपतेश्चापि त्याज्यमेव मुमुक्षुभिः । वेदाचारविरुद्धत्वादुपादानादिभेदतः ॥ [209]

मूलम्

अधिष्ठानानुपपत्तेश्च।

टीका

अशरीरस्येश्वरस्य जगत्सृष्टिर्न सिद्ध्यति । कुलालवदधिष्ठानानुपपत्तेर्विरोधतः ॥ [210]

मूलम्

करणवच्चेन्न भोगादिभ्यः।

टीका

जीवस्स्वकरणं यद्वदधितिष्ठत्यजस्तथा । इति चेत् कर्मभोगादि जीवस्येव प्रसज्यते ॥ [211]

मूलम्

अन्तवत्त्वमसर्वज्ञता वा।

टीका

तस्याप्यदृष्टवत्त्वे तु सृज्यत्वादि ततो भवेत् । सर्वज्ञताया(ः) हानिश्च तस्मात्तन्न समञ्जसम् ॥ [212]