14 उपलब्ध्यधिकरणम्

मूलम्

नाभाव उपलब्धेः ।

टीका

ज्ञानादन्यपदार्थानामभावोक्तिर्न सिद्ध्यति । सर्वेषां तु पदार्थानां उपलब्धेः प्रमाणतः ॥ [201]

मूलम्

वैधर्म्याच्च न स्वप्नादिवत् ।

टीका

स्वप्नादिवज्जागरितज्ञानस्यापि न युज्यते । मिथ्यात्वं दोषराहित्यवैधर्म्यादेव सत्यता ॥ [202]

मूलम्

न भावोऽनुपलब्धेः ।

टीका

ज्ञानस्य चार्थशून्यस्य सद्भावो नैव विद्यते । कर्मकर्तृवियुक्तस्य ज्ञानस्यानुपलव्धितः ॥ [203]