10 प्रयोजनवत्त्वाधिकरणम्

मूलम्

न प्रयोजनवत्त्वात्।

टीका

सृष्टेः प्रयोजनवत्त्वात् तदभावात्परात्मनः । स्रष्टृत्वं परिपूर्णस्य न भवेदिति चोद्यते ॥ [170]

मूलम्

लोकवत्तु लीलाकैवल्यम् ।

टीका

लोके तु परिपूर्णानां कन्दुकादिविहारवत् । ब्रह्मणः परिपूर्णस्य सृष्टेर्लीला प्रयोजनम् ॥ [171]

मूलम्

वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति।

टीका

न वैषम्यं न नैर्घृण्यं देवादीन् सृजतः प्रभोः । कर्मानुरूपं स्रष्टृत्वात् तथा दर्शयति श्रुतिः ॥ [172]

मूलम्

न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च।

टीका

जीवाभावादविभागान्नास्ति कर्म तदेति चेत् । जीवस्यानादिताश्रुत्याऽविभागोऽप्युपपद्यते ॥ [173]

मूलम्

सर्वधर्मोपपत्तेश्च।

टीका

प्रधानपरमाण्वादि हेतुत्वे यच्च दूषणम् । न ब्रह्महेतुतायां तत् सर्वधर्मोपपत्तितः ॥ [174]