मूलम्
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा।
टीका
बहु स्यामिति सङ्कल्पाद्ब्रह्म कृत्स्नं जगद्भवेत् । निरंशबोधकैर्वाक्यैः विरोधाद्वा न कारणम् ॥ [164]
मूलम्
श्रृतेस्तु शब्दमूलत्वात्।
टीका
शब्दमात्रेण वेद्यत्वाच्छ्रुत्युक्तं ब्रह्मणो भवेत् । कारणत्वमतः सर्वं श्रुतिमूलं समञ्जसम् ॥ [165]
मूलम्
आत्मनि चैवं विचित्राश्च हि।
टीका
अचिद्धर्माप्रसक्तिश्च जीवात्मनि यथा तथा । जलादौ न यथौष्ण्यादिशक्तयश्च तथा परे ॥ [166]
मूलम्
स्वपक्षदोषाच्च।
टीका
स्वपक्षे हि निरंशस्य प्रधानस्य भवेत् कथम् । कारणत्वं तदा दोषादस्तु ब्रह्मैव कारणम् ॥ [167]
मूलम्
सर्वोपेता च तद्दर्शनात्।
टीका
विचित्रसर्वशक्त्या च ह्युपेता देवता परा । उपास्या श्रुतिसिद्धेति जगत्कारणमुच्यते ॥ [168]
मूलम्
विकरणत्वान्नेति चेत्तदुक्तम् ।
टीका
विकरणत्वान्नेति चेत्कारणत्वं कृतोत्तरम् । न तस्य कार्यं करणमिति वाक्यात्परमात्मनः ॥ [169]