मूलम्
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि।
टीका
समर्थेऽपि हि सामग्रीदर्शनेन न कर्तृता । अद्वितीये ब्रह्मणि स्यात् मैवं क्षीरे यथा दधि ॥ [162]
मूलम्
देवादिवदपि लोके।
टीका
देवादयः स्वस्वलोके सृजन्ति विविधं यथा । ब्रह्मापि निजसङ्कल्पात् तनोति निखिलं तथा ॥ [163]