मूलम्
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः।
टीका
जीवत्वव्यपदेशात्तु हिताकृत्यादिदोषतः । ब्रह्मणः कारणत्वं च न सिद्ध्येदिति चोद्यते ॥ [159]
मूलम्
अधिकं तु भेदनिर्देशात्।
टीका
करणधिपस्याधिप इति श्रुत्येह भेदतः । निर्देशेनाधिकं ब्रह्म जीवान्नातोऽत्र दुस्स्थता ॥ [160]
मूलम्
अश्मादिवच्च तदनुपपत्तिः।
टीका
अश्मादीनां ब्रह्मभावो यथा नैवोपपद्यते । तथैवाघौघपूर्णस्य जीवस्यापि न युज्यते ॥ [161]