मूलम्
तदनन्यत्वमारम्भणशब्दादिभ्यः ।
टीका
अनन्यत्वं तु जगतो ब्रह्मणः कारणादिह । वाचारम्भणमित्यादेर्मृत्पिण्डाद् घटवद्भवेत् ॥ [153]
मूलम्
भावे चोपलब्धेः ।
टीका
कुण्डलादिषु कार्येषु हिरण्याद्युपलब्धितः । कार्यं कारणतोऽनन्यदिति वेदविदां मतम् ॥ [154]
मूलम्
सत्वाच्चापरस्य ।
टीका
अपरस्य तु कार्यस्य सत्वात्सूक्ष्मस्य कारणे । अनन्यत् कारणात्कार्यं मृदि सूक्ष्मं घटोऽस्ति हि ॥ [155]
मूलम्
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच्च ।
टीका
व्यपदेशादसदिति नेति चेन्न तदा जगत् । सूक्ष्मेणासीद्वाक्यशेषात् युक्तेश्शब्दान्तरात्तथा ॥ [156]
मूलम्
पटवच्च ।
टीका
व्यतिषङ्गविशेषेण नामरूपान्तरस्पृशः । उच्यन्ते पट इत्येव यथा जगति तन्तवः ॥ [157]
मूलम्
यथा च प्राणादिः ।
टीका
प्राणादिस्तु स्थानभेदाद्वायोर्नान्यो यथा भवेत् । जगच्चापि तथा नान्यद्ब्रह्मणो निजकारणात् ॥ [158]