03 विलक्षणत्वाधिकरणम्

मूलम्

न विलक्षणत्वादस्य तथात्वं च शब्दात् ।

टीका

जगद्विलक्षणत्वेन कारणत्वं न सिध्यति । ब्रह्मणश्च तथात्वं तु सच्च त्यच्चेति शब्दतः ॥ [142]

मूलम्

अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ।

टीका

अभिमानिविवक्षातः तं पृथिव्यब्रवीदिति । देवतास्तिस्र इत्यादिविशेषाच्चानुवेशतः ॥ [143]

मूलम्

दृश्यते तु ।

टीका

कृम्यादेर्माक्षिकादिभ्यो यथोत्पत्तिः समञ्जसा । जगतोऽपि तथोत्पत्तिर्ब्रह्मणोऽपि विलक्षणात् ॥ [144]

मूलम्

असदिति चेन्न प्रतिषेधमात्रत्वात् ।

टीका

नन्वसत्कार्यवादः स्यादिति चेन्नात्र चोभयोः । सालक्षण्यस्य नियमः केवलं प्रतिषिध्यते ॥ [145]

मूलम्

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ।

टीका

प्रळये सृष्टिकाले च जगद्भावात्परात्मनः । जगद्दोषाः ब्रह्मणोऽतो वाक्यं स्यादसमञ्जसम् ॥ [146]

मूलम्

न तु दृष्टान्तभावात् ।

टीका

व्यवस्थिता गुणास्तावदात्मनश्च तनोर्यथा । जगत्तनोर्ब्रह्मणश्च तथेति च समञ्जसम् ॥ [147]

मूलम्

स्वपक्षदोषाच्च ।

टीका

स्वपक्षे दोषभूयस्त्वात् परित्यज्य स्वकं मतम् । ब्रह्मकारणवादस्तु स्वीकार्यो भवताऽनघः ॥ [148]

मूलम्

तर्काप्रतिष्ठानादपि ।

टीका

कुतर्कस्याप्रतिष्ठानात्प्रधानं तु न कारणम् । ब्रह्मानधिष्ठितं यस्मात् त्वया वादात्प्रकल्पितम् ॥ [149]

मूलम्

अन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ।

टीका

प्रबलात् तर्कसंवादात् प्रधानं सिध्यतीति चेत् । ततोऽपि बलवत्तर्कबाधान्मुच्येत नो भवान् ॥ [150]