01 स्मृत्यधिकरणम्

मूलम्

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।

टीका

प्रधानस्याकारणत्वे त्यक्ता स्यात् कपिलस्मृतिः । इति न ब्रह्मणोऽतत्त्वे मन्वादिस्मृतयो वृथा ॥ [139]

मूलम्

इतरेषां चानुपलब्धेः ।

टीका

इतरेषां मुनीनां तु प्रधानस्य जगत् प्रति । कारणत्वानुपलब्धेः ब्रह्मैवात्र तु कारणम् ॥ [140]