मूलम्
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।
टीका
उपादानं च तद्ब्रह्म प्रतिज्ञासिद्धये भवेत् । सुवर्णकटकादीनां दृष्टान्तानामबाधतः ॥ [132]
मूलम्
अभिध्योपदेशाच्च ।
टीका
बहु स्यामिति सङ्कल्पश्रुत्या ब्रह्मैव कारणम् । उपादानं निमित्तं च जगतोऽस्येति निश्चितम् ॥ [133]
मूलम्
साक्षाच्चोभयाम्नानात् ।
टीका
उपादानं निमित्तं च भवेद्ब्रह्म जगत्प्रति । ब्रह्म वनं ब्रह्म वृक्ष इति साक्षादुदीरणात् ॥ [134]
मूलम्
आत्मकृतेः ।
टीका
बहुत्वकरणात् स्वस्य कर्तृत्वं कर्मता च हि । अतो ब्रह्म निमित्तञ्चोपादानञ्चेति कथ्यते ॥ [135]
मूलम्
परिणामात् ।
टीका
ब्रह्मणो बहुधा ह्यत्र परिणामान्न च क्षतिः । सूक्ष्माचेतनचिद्वस्तुशरीरस्य शरीरतः ॥ [136]
मूलम्
योनिश्च हि गीयते ।
टीका
यद्भूतयोनिमित्यादिश्रुत्या सर्वजगत् प्रति । उपादानमिति ब्रह्म गीयते चेति निश्चितम् ॥ [137]