मूलम्
वाक्यान्वयात् ।
टीका
मैत्रेयीब्राह्मणस्थानां वाक्यानामन्वयात् तदा । परमात्मेति युक्तत्वात् द्रष्टव्यस्तान्त्रिको न च ॥ [128]
मूलम्
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ।
टीका
प्रतिज्ञायास्तु सिद्ध्यर्थं जीवबोधकशब्दतः । ब्रह्माभिधानं लिङ्गमित्याश्मरथ्यमुनेर्मतम् ॥ [129]
मूलम्
उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ।
टीका
जीवशब्दात्परस्योक्तिरुत्क्रमिष्यत एव हि । ब्रह्मसाम्यापत्तितः स्यात् औडुलोमिमुनेर्मतम् ॥ [130]
मूलम्
अवस्थितेरिति काशकृत्स्नः ।
टीका
अवस्थितेरात्मनि च ब्रह्मणो जीववाचकात् । अभिधानं युक्तमिति काशकृत्स्नमुनेर्मतम् ॥ [131]