मूलम्
जगद्वाचित्वात् ।
टीका
यस्य वैतत्कर्म चेति श्रुतं कर्म जगद्भवेत् । पुण्यादिवशगो जीवः कथ्यते नात्र हि श्रुतौ ॥ [125]
मूलम्
जीवमुख्यप्राणलिङ्गन्नेति चेत्तद्व्याख्यातम् ।
टीका
जीवलिङ्गात्प्राणलिङ्गात् कारणं ब्रह्म नो भवेत् । इतिचेत्-त्रिविधोपास्तिसिद्ध्यर्थमिति वर्णितम् ॥ [126]
मूलम्
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ।
टीका
अस्मिन् जीवपरामर्शो जीवादन्यत्वसिद्धये । आख्याति प्रश्नव्याख्याभ्यां जैमिनिस्त्वपि चेतरे ॥ [127]