मूलम्
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।
टीका
आकाशादौ कारणत्वं सर्वज्ञस्यैव कथ्यते । आत्मन आकाश इति तस्माद्ब्रह्मैव कारणम् ॥ [123]
मूलम्
समाकर्षात् ।
टीका
असद्वा इदमित्यत्र सर्वज्ञं सर्वकारणम् । समाकृष्य ब्रवीतीति ब्रह्मैवात्र हि कारणम् ॥ [124]