मूलम्
न संख्योपसङ्गहादपि ज्ञानाभावादतिरेकाच्च ।
टीका
यस्मिन् पञ्चपञ्चजना इति संख्याग्रहेऽपि च । नानाभावातिरेकाभ्यां सांख्योक्तप्रक्रिया न हि ॥ [120]
मूलम्
प्राणादयो वाक्यशेषात् ।
टीका
प्राणादयः पञ्चजना इन्द्रियाणीति निश्चिताः । प्राणस्य प्राणमिति च वाक्यशेषो हि दृश्यते ॥ [121]
मूलम्
ज्योतिषैकेषामसत्यन्ने ।
टीका
केषांचिदन्नस्येत्यादेः असद्भावेऽपि शाखिनाम् । ज्योतिषामिति शब्देन बोध्यन्ते हीन्द्रियाणि तु ॥ [122]