मूलम्
चमसवदविशेषात् ।
टीका
यथेदं तच्छिर इति चमसस्य शिरस्त्ववत् । अजाया अविशेषाच्च न परोक्ता त्वजा हि सा ॥ [117]
मूलम्
ज्योतिरुपक्रमा तु तथाह्यधीयत एके ।
टीका
ब्रह्मकारणिका सा तु ज्योतिषाऽधिष्ठिता ह्यजा । अणोरणीयानित्यत्र तैत्तिरीया ह्यधीयते ॥ [118]
मूलम्
कल्पनोपदेशाच्च मध्वादिवदविरोधः ।
टीका
लये स्थितस्य चैकस्य मधुत्वं कार्यता रवेः । अजाया अपि सृष्ट्यादिवचनाच्च तथा भवेत् ॥ [119]