मूलम्
आनुमानिकमप्येकेषामिति चेन्न शरीर-रूपक-विन्यस्त-गृहीतेर्दर्शयति च ।
टीका
प्रधानमपि चैकेषां कारणं त्विति चेन्न हि । रथरूपेण विन्यस्ततनुरव्यक्तमुच्यते ॥ [110]
मूलम्
सूक्ष्मं तु तदर्हत्वात् ।
टीका
शरीरावस्थमव्यक्तं प्रवृत्त्यर्हं तदेव हि । तस्मादव्यक्तशब्देन न प्रधानमिहोच्यते ॥ [111]
मूलम्
तदधीनत्वादर्थवत् ।
टीका
परमात्माधीनतया रथत्वादिनिरूपणम् । स्यात् प्रयोजनवत् सर्वं नाव्यक्तमिह तान्त्रिकम् ॥ [112]
मूलम्
ज्ञेयत्वावचनाच्च ।
टीका
ज्ञेयत्वेन ह्यवचनान्न प्रधानमिहोच्यते । व्यक्ताव्यक्तज्ञविज्ञानादिति तेषां मतं ह्यतः ॥ [113]
मूलम्
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ।
टीका
अशब्दमस्पर्शमिति ज्ञेयं तद्वदति श्रुतिः । इति चेन्न प्रकरणात् परमात्मा हि कथ्यते ॥ [114]
मूलम्
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।
टीका
उपासनमुपास्यं च ध्यातारं पृच्छतस्तदा । उपदेशत्रयाणां च न प्रधानमिहोच्यते ॥ [115]
मूलम्
महद्वच्च ।
टीका
महत्तत्त्वाग्रहो यद्वदात्मशब्दविशेषणात् । प्रधानस्याप्यग्रहस्तु परत्वादात्मनस्तथा ॥ [116]