मूलम्
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ।
टीका
नामरूपविनिर्वोढा ह्याकाशः परमेश्वरः । बद्धमुक्तोभयावस्थादन्यत्वेनास्य कीर्तनात् ॥ [107]
मूलम्
सुषुप्त्युत्क्रान्त्योर्भेदेन ।
टीका
प्राज्ञेन संपरिष्वक्तः सुषुप्तौ कीर्त्यते पृथक् । भेदेन चैवमुत्क्रान्तौ जीवादन्यः परः पुमान् ॥ [108]
मूलम्
पत्यादिशब्देभ्यः ।
टीका
सर्वस्याधिपतीत्यादिशब्दैश्च व्यपदेशतः । प्राज्ञश्च परमात्माऽयं जीवादन्यस्सुनिश्चितः ॥ [109]