मूलम्
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ।
टीका
हंसेनानादरश्रुत्या तदैवाद्रवणाद्गुरौ । शूद्रेत्यामन्त्रणं शोकात् न शूद्रस्त्वागतः स हि ॥ [98]
मूलम्
क्षत्रियत्वगतेश्च ।
टीका
जानश्रुतेस्तु तत्रैव बहुदायित्वदर्शनात् । क्षत्रियत्वं गम्यतेऽतो न शूद्रस्याधिकारिता ॥ [99]
मूलम्
उत्तरत्र चैत्ररथेन लिङ्गात् ।
टीका
उपरिष्टाच्च विद्यायां क्षत्रियत्वं तु गम्यते । अयाजयंश्चैत्ररथं कापेया इति लिङ्गतः ॥ [100]
मूलम्
संस्कारपरामर्शात् तदभावाभिलापाच्च ।
टीका
ब्रह्मविद्याप्रकरणे संस्कारपरिमर्शनात् । संस्काराभाववचनान्न शूद्रस्याधिकारिता ॥ [101]
मूलम्
तदभावनिर्धारणे च प्रवृत्तेः ।
टीका
जाबालस्य तु शुश्रूषोः शूद्रत्वाभावनिश्चये । उपदेशप्रवृत्तेश्च न शूद्रस्याधिकारिता ॥ [102]
मूलम्
श्रवणाध्ययनार्थप्रतिषेधात् ।
टीका
आम्नायश्रवणाध्याययागादिप्रतिषेधतः । उपासनेऽप्यधीकारो न शूद्रस्येति निश्चितम् ॥ [103]
मूलम्
स्मृतेश्च ।
टीका
न चास्योपदिशेद्धर्ममित्यादिस्मृतितस्तथा । उपासने नाधिकारः शूद्रस्येति च गम्यते ॥ [104]