मूलम्
मध्वादिष्वसम्भवादनधिकारं जैमिनिः ।
टीका
मध्वादिषु वसूनां चानधिकारं तु जैमिनिः । प्राप्तत्वाच्च वसुत्वस्याऽनर्थित्वान्मनुते मुनिः ॥ [95]
मूलम्
ज्योतिषि भावाच्च ।
टीका
ज्योतिर्होपासते देवाः इत्येवं ब्रह्मचिन्तने । अधिकारप्रतीत्यैषामन्यत्रानधिकारिता ॥ [96]
मूलम्
भावं तु बादरायणोऽस्ति हि ।
टीका
जन्मान्तरे वसुत्वस्य प्राप्त्यर्थं स्वतनोर्भवेत् । परस्योपासनं तेषां बादरायण आह हि ॥ [97]