मूलम्
शब्दादेव प्रमितः ।
टीका
अङ्गुष्ठमात्रः पुरुषः कठवल्ल्यामिहोदितः । भूतभव्यादीशितृत्वशब्दादेव परः पुमान् ॥ [88]
मूलम्
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।
टीका
उपासने मनुष्याणामधिकारात्परात्मनः । अङ्गुष्ठप्रमितृत्वं च हृदयापेक्षया भवेत् ॥ [89]
मूलम्
कम्पनात् ।
टीका
(प्रमिताधिकरण शेषः) अङ्गुष्ठप्रमितप्राणपदार्थब्रह्मजाद्भयात् । सर्वे देवा जागरूका इति श्रुत्या परः स हि ॥ [105]
मूलम्
ज्योतिर्दर्शनात् ।
टीका
अङ्गुष्ठमात्रस्तु परो ज्यातिषोऽत्रैव दर्शनात् । तस्य भासा सर्वमिदं विभातीति श्रुतं यतः ॥ (अत्युत्तमज्योतिषश्च दर्शनात् स परः पुमान् । तस्य भासा सर्वमिदं विभातीति श्रुताविह ॥ )[106]