22 दहराधिकरणम्

मूलम्

दहर उत्तरेभ्यः ।

टीका

दहरोऽस्मिन्नन्तर इत्युक्तो हि दहरः परः । उत्तरेभ्यस्तु वाक्येभ्यः प्रतिपन्नगुणान्वयात् ॥ [78]

मूलम्

गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ।

टीका

तस्मिन् गतिब्रह्मलोकशब्दाभ्यां दहरः परः । संपद्येति ब्रह्मलोक इत्यन्यश्रुतिलिङ्गतः ॥ [79]

मूलम्

धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ।

टीका

असंभेदाय लोकानां महिम्नो विधृतेरिह । परस्य तस्य चास्मिंस्तु श्रवणात् दहरः परः ॥ [80]

मूलम्

प्रसिद्धेश्च ।

टीका

प्राणनादिसनाथायाः प्रसिद्धेः प्रबलत्वतः । भूताकाशप्रसिद्धेरप्यत्र दह्रः परः पुमान् ॥ [81]

मूलम्

इतरपरामर्शात्स इति चेन्नासम्भवात् ।

टीका

जीवस्य च परामर्शात् संप्रसाद इति श्रुतेः । वाक्यशेषे स इति चेन्न जीवोऽनुपत्तितः ॥ [82]

मूलम्

उत्तराच्चेदाविर्भूतस्वरूपस्तु ।

टीका

य आत्मापहतेत्यादिश्रुत्या जीव इहेति चेत् । आविर्भूतगुणोक्त्याऽत्र न जीवो दहरो भवेत् ॥ [83]

मूलम्

अन्यार्थश्च परामर्शः ।

टीका

माहात्म्यकथनार्थं तु ब्रह्मणोऽन्यस्य कीर्तनम् । संप्रसादस्य मुक्त्यादौ स्वरूपापादनेन तु ॥ [84]

मूलम्

अल्पश्रुतेरिति चेत्तदुक्तम् ।

टीका

अल्पत्वाल्पस्थानवत्त्वश्रुत्या ब्रह्म न तद्यदि । निचाय्यत्वादेवमिति दत्तोत्तरमिदं पुरा ॥ [85]

मूलम्

अनुकृतेस्तस्य च ।

टीका

परमं साम्यमित्यादिश्रुत्या साम्यानुकारतः । जीवोऽनुकर्ता दहरस्त्वनुकार्यः परः पुमान् ॥ [86]

मूलम्

अपि स्मर्यते ।

टीका

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । इति स्मृत्याऽनुकर्ता च जीवस्त्विति न कारणम् ॥ [87]