मूलम्
अक्षरमम्बरान्तधृतेः ।
टीका
अक्षरं तु परं ब्रह्म ह्यव्याकृतधृतेरिह । ओतत्वेन च सर्वस्य प्रोतत्वेनाक्षरे श्रुतेः ॥ [74]
मूलम्
सा च प्रशासनात् ।
टीका
प्रशासने त्वक्षरस्य विधृताविति शंसनात् । शासनात् सा विधृतिरित्यज्ञो जीवो कारणम् ॥ [75]
मूलम्
अन्यभावव्यावृत्तेश्च ।
टीका
अदृष्टं द्रष्ट्रिति श्रुत्या ह्यन्यभावनिषेधतः । अक्षरं परमात्मा हि जगत्कारणमुच्यते ॥ [76]