मूलम् भूमा सम्प्रसादादध्युपदेशात्। टीका जीवादूर्ध्वं चोपदेशाद्भूमाऽत्र परमः पुमान् । सनत्कुमारगुरुणा नारदाय विशेषतः ॥ [72] मूलम् धर्मोपपत्तेश्च। टीका प्रतिष्ठितः स्वे महिम्नि भूमेति वचनादिह । अनन्याधारकत्वादिगुणवत्त्वाच्च तत् परम् ॥ [73]