19 भूमाधिकरणम्

मूलम्

भूमा सम्प्रसादादध्युपदेशात्।

टीका

जीवादूर्ध्वं चोपदेशाद्भूमाऽत्र परमः पुमान् । सनत्कुमारगुरुणा नारदाय विशेषतः ॥ [72]

मूलम्

धर्मोपपत्तेश्च।

टीका

प्रतिष्ठितः स्वे महिम्नि भूमेति वचनादिह । अनन्याधारकत्वादिगुणवत्त्वाच्च तत् परम् ॥ [73]