मूलम्
द्युभ्वाद्यायतनं स्वशब्दात्।
टीका
द्युभ्वाद्यायतनं ब्रह्म नाड्याधारं च तद्विदुः । स्वशब्दादमृतस्यैष सेतुरित्यादिकादिह ॥ [66]
मूलम्
मुक्तोपसृप्यव्यपदेशाच्च।
टीका
प्रक्रमेऽस्मिन् यदा पश्यो रुक्मवर्णं च पश्यति । साम्यं परं तदैतीति श्रुतेर्ब्रह्म द्युभूधरम् ॥ [67]
मूलम्
नानुमानमतच्छब्दात्प्राणभृच्च।
टीका
प्रधानवच्च जीवोऽपि द्युभ्वाद्यायतनं नहि । तद्वाचकानां शब्दानामभावादिति सिद्ध्यति ॥ [68]
मूलम्
भेदव्यपदेशात्।
टीका
यदा पश्यत्यन्यमीशमिति श्रुत्या तयोरिह । भेदेन व्यपदेशाच्च न जीवः सर्वधारकः ॥ [69]
मूलम्
प्रकरणात्।
टीका
अथ परा ययेत्यादिब्रह्मप्रकरणात्ततः । द्युभ्वाद्यायतनं ब्रह्म निश्चेयं नेतराविह ॥ [70]
मूलम्
स्थित्यदनाभ्यां च।
टीका
एकत्रैव तनौ तिष्ठन् अन्योऽनश्नन् फलं स्वराट् । अश्नन् जीवो मुह्यतीति तत्राभोक्ता परः पुमान् ॥ [71]