मूलम्
वैश्वानरः साधारणशब्दविशेषात्।
टीका
वैश्वानरः परं ब्रह्म जाठरादिविलक्षणम् । ब्रह्मशब्दप्रभृतिभिः सामान्यस्य विशेषणात् ॥ [57]
मूलम्
स्मर्यमाणमनुमानं स्यादिति।
टीका
अग्निर्मूर्धेति यद्रूपं ब्रह्मणोऽन्यश्रुतौ स्मृतम् । वैश्वानरः परं ब्रह्म तद्रूपस्मरणादिह ॥ [58]
मूलम्
शब्दादिभ्योऽन्तः प्रतिष्ठानाच्च नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात् पुरुषमपि चैनमधीयते।
टीका
होमाधारान्तराग्नित्वश्रुतेर्ब्रह्म न चेन्न हि । जाठराग्निशरीरस्योपास्तये पुरुषस्य सा ॥ [59]
मूलम्
अत एव न देवता भूतं च।
टीका
लोकत्रयशरीरत्वात् पुरुषत्वेन कीर्तनात् । वैश्वानरो नाग्निदेवो न च भूततृतीयकम् ॥ [60]
मूलम्
साक्षादप्यविरोधं जैमिनिः।
टीका
वैश्वानरपदेनेवाग्निशब्देनापि योगतः । बोधने चाविरोधं तु ब्रह्मणो जैमिनिर्जगौ ॥ [61]
मूलम्
अभिव्यक्तेरित्याश्मरथ्यः।
टीका
द्युमूर्धत्वादिमात्राभिः परिच्छिन्नत्वमत्र तु । उपासकाभिव्यक्तेरित्याश्मरथ्यमुनेर्मतम् ॥ [62]
मूलम्
अनुस्मृतेर्बादरिः।
टीका
द्युलोकप्रभृतीनां तु मूर्धत्वादिप्रकल्पनम् । तथैवोपासनं वक्तुमिति बादरिरब्रवीत् ॥ [63]
मूलम्
सम्पत्तेरति जैमिनिस्तथा हि दर्शयति।
टीका
अग्निहोत्रत्वसम्पत्तेः प्राणाहुत्यास्तु जैमिनिः । उरोवेदित्वादिकॢप्तिमब्रवीदाह हि श्रुतिः ॥ [64]
मूलम्
आमनन्ति चैनमस्मिन्।
टीका
द्युमूर्धादीन् अवयवान् उपासकतनौ तथा । ध्यात्वाऽऽहुत्यार्चनार्थं च वैश्वानरमिहामनत् ॥ [65]