मूलम्
अदृश्यत्वादि गुणको धर्मोक्तेः।
टीका
अदृश्यत्वादिगुणकमक्षरं परमः पुमान् । सर्वज्ञत्वादिधर्मोक्तेश्चाक्षरात्परतः परः ॥ [54]
मूलम्
विशेषणभेदव्यपदेशाभ्यां च नेतरौ।
टीका
स्वज्ञानात्सर्वविज्ञानादक्षरं नेतरौ भवेत् । अक्षरात्परतो जीवात्परत्वेन पृथक् श्रुतेः ॥ [55]
मूलम्
रूपोपन्यासाच्च।
टीका
अग्निर्मूर्धेत्यक्षरस्य चन्द्रसूर्यौ च चक्षुषी । सर्वदेवाद्यङ्गकत्वशंसनात्परमेश्वरः ॥ [56]