मूलम्
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्।
टीका
अन्तर्याम्यधिदैवाधिलोकादिषु परात्परः । सर्वाऽवेद्यनियन्तृत्वब्रह्मधर्मस्य शंसनात् ॥ [51]
मूलम्
न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च।
टीका
प्रधानजीवौ नैवात्र त्वन्तर्यामितयोदितौ । असंभावितधर्माणां तयोरत्राभिधानतः ॥ [52]
मूलम्
उभयेऽपि हि भेदेनैनमधीयते।
टीका
उभयेऽन्तर्यामिवाचि यो विज्ञाने य आत्मनि । इत्यक्ष्यादिवदत्रापि भेदेनैनमधीयते ॥ [53]