मूलम्
अन्तर उपपत्तेः।
टीका
अक्ष्यन्तर्वर्तिपुरुषो जीवबिम्बसुरात्परः । अमृतत्वाभयत्वादिगुणानामुपपत्तितः ॥ [45]
मूलम्
स्थानादिव्यपदेशाच्च।
टीका
यश्चक्षुषीति श्रुत्या च स्थानादिव्यपदेशतः । नित्यन्तृत्वामृतत्वादिगुणेभ्यश्च परः पुमान् ॥ [46]
मूलम्
सुखविशिष्टाभिधानादेव च।
टीका
कं ब्रह्मेति सुखाढ्यस्य ध्यानार्थमिह चाक्षणि । अभिधानात्स्थितेरत्र ह्यक्ष्यन्तःस्थः परः पुमान् ॥ [47]
मूलम्
अत एव च स ब्रह्म।
टीका
तस्मात् कं ब्रह्म खं ब्रह्मेत्यत्राकाशस्य कीर्तनात् । अक्ष्याधारतया तस्य त्वाकाशो हि परः पुमान् ॥ [48]
मूलम्
श्रुतोपनिषत्कगत्यभिधानाच्च।
टीका
श्रुतोपनिषदां या च गतिरुक्ताऽर्चिरादिका । सैवात्रोपासकस्योक्तेत्यतोऽपि स परः पुमान् ॥ [49]
मूलम्
अनवस्थितेरसंभवाच्च नेतरः।
टीका
नियमेनाक्षण्यवृत्तेर्न जीवोऽक्षिगतस्त्विह । नियन्तृत्वामृतत्वादिपूर्वोक्तासंभवाच्च हि ॥ [50]