मूलम्
अत्ता चराचरग्रहणात्।
टीका
सूचितोऽत्ता तु संहर्ता परमात्मेति निश्चयः । मृत्यूपसेचनं ब्रह्मक्षत्रान्नं हि जगद्भवेत् ॥ [41]
मूलम्
प्रकरणाच्च।
टीका
महान्तं विभुमित्यादिप्रक्रमात् पर एव सः । अत्ता चराचरस्येति संहर्ता जगतो भवेत् ॥ [42]
मूलम्
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्।
टीका
हृत्प्रविष्टौ जीवपरौ बुद्धिजीवौ न चात्र हि । गुहाहितं प्रविश्येति तयोरेव तदुक्तितः ॥ [43]
मूलम्
विशेषणाच्च।
टीका
तयोरेव प्रकरणे ह्युपास्योपासकत्वतः । विशिष्य वचनादत्र ब्रह्मजीवौ गुहाहितौ ॥ [44]