12 सर्वत्रप्रसिद्ध्यधिकरणम्

मूलम्

सर्वत्र प्रसिद्धोपदेशात्

टीका

सर्वं खल्विदमित्यत्र प्रसिद्धस्योपदेशतः । सर्वात्मा परमात्मैव मनोमय उदीर्यते ॥ [33]

मूलम्

विवक्षित गुणोपपत्तेश्च।

टीका

वक्ष्यमाणगुणानां तु परस्मिन्नेव संभवात् । तज्जलानित्युपास्यत्वं परमात्मनि युज्यते ॥ [34]

मूलम्

अनुपपत्तेस्तु न शारीरः।

टीका

मनोमयो न जीवोऽत्र स्रष्टृत्वादेरसंभवात् । सङ्कल्पेनैव सर्वत्र बहु स्यामिति कीर्तनात् ॥ [35]

मूलम्

कर्मकर्तृव्यपदेशाच्च।

टीका

प्रेत्याभिसम्भवानीति कर्मकर्तृत्वशंसनात् । प्राप्योपासकयोरत्र प्राप्यं ब्रह्म हि कारणम् ॥ [36]

मूलम्

शब्दविशेषात्।

टीका

एष म आत्मा चेत्यादिषष्ठ्या प्रथमया च तौ । निर्दिष्टौ प्रथमान्तार्थस्तयोर्मध्ये मनोमयः ॥ [37]

मूलम्

स्मृतेश्च।

टीका

सर्वस्य चाहमित्यादिस्मृत्या चैव हृदि स्थितः । जीवादन्यः स्मृतेर्दाता ज्ञानदः परमेश्वरः ॥ [38]

मूलम्

अर्भकौस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च।

टीका

अल्पत्वाल्पस्थानवत्त्वव्यपदेशात् स नेश्वरः । इति चेन्न निचाय्यत्वात् महत्त्वं व्योमवत्स्वतः ॥ [39]

मूलम्

सम्भोगप्राप्तिरिति चेन्न वैशेष्यात्।

टीका

हृदये वर्तमानत्वे जीवस्येव परात्मनः । दुःखादिप्राप्तिरिति चेन्नास्याः कर्म हि कारणम् ॥ [40]