श्रीमहाचार्यैः विरचितः श्रीभाष्योपन्यासः
॥ अथ चतुर्थोऽध्यायः ॥
एवम् अङ्गैः सह विद्या तृतीये चिन्तिता । अनन्तरम् विद्याफलम् चिन्त्यते । तत्र प्रथमे पादे विद्यास्वरूपविशोधनपूर्वकम् देहावस्थिति-समये सम्भवद्विद्याफलम् चिन्त्यते । यद्यपि चतुर्थः फलनिरूपणपर एव तथापि भक्तिरूपापन्नस्य ज्ञानस्य प्रीतिरूपतया फलकोटिनिवेशन-ज्ञापनार्थम् अस्य इदम् साधनमिति साध्यसाधनभावसम्बन्धज्ञापनार्थम् च विद्यास्वरूपमात्रम् विशोध्यते ।
तत्र – आवृत्तिः इत्यत्र ब्रह्मविदाप्नोति इति वेदनमात्रस्यैव विधानात् असकृदावृत्तौ प्रमाणाभावात् सकृत्कृतमेव वेदनम् शास्त्रार्थ इत्याशङ्क्य मनो ब्रह्मेत्युपासीतत्यादिषु एकविषये वेदनोपासन-शब्दयोः पर्यायत्वेन प्रयोगात् उपासनशब्दपर्यायत्वेन अवगतवेदनशब्देन (ब्दोप) उपदेशात् उपासनशब्दस्य च असकृदावृत्तिज्ञान(वेदन)वाचित्वात् असकृदावृत्तमेव वेदनम् शास्त्रार्थ इत्युक्तम् ॥ १ ॥
आत्मेतीत्यत्र जीवब्रह्मणोः भिन्नत्वात् जीवात् अन्यत्वेन ब्रह्म उपास्यमिति आशङ्क्य त्वम् वा अहमस्मि भगवो देवतेत्यादिषु पूर्वोपासकैः ब्रह्माहमित्यनुसन्धानदर्शनात् अर्थान्तरभूतस्यापि तस्य स्वात्मनः अन्तर्यामित्वेन अहमित्यनुसन्धानस्य अविरुद्धत्वात् आत्म-त्वेन उपास्यमित्युक्तम् ॥ २ ॥
न प्रतीके न इत्यत्र प्रतीकोपासनेऽपि ब्रह्मण एव उपास्यत्वात् आत्मत्वेन उपासनम् कर्तव्यमित्याशङ्क्य उत्कृष्टे निकृष्टदृष्ट्ययोगेन ब्रह्मणो दृष्टिविशेषणत्वेन प्रतीकानामेव उपास्यत्वम् न आत्मत्वेन उपासनमित्युक्तम् ॥ ३ ॥
आदित्यादिमतयः इत्यत्र उद्गीथादीनाम् फलसाधनतया उत्कृष्ट-त्वात् आदित्यादिषु उद्गीथादिदृष्टिः कार्येत्याशङ्क्य आदित्यादिदेवता-राधनद्वारेणैव कर्मणाम् फलसाधनत्वात् आदित्यादीनामेव उत्कृष्टत्वात् उद्गीथादौ आदित्यादिदृष्टिः कार्येत्युक्तम् ॥ ४ ॥
आसीन इत्यत्र एवमनुतिष्ठेदिति विशेषाभिधानाभावात् आसीनश्शयानस्तिष्ठन् गच्छन्वानुतिष्ठेत् इत्याशङ्क्य आसीनस्यैव ध्यानपेक्षितचित्तैकाग्र्यसम्भवात् आसीन एव अनुतिष्ठेत् इत्युक्तम् ॥ ५ ॥
आप्रायणादित्यत्र एकस्मिन् एव अहनि शास्त्रार्थस्य कृतत्वेन तावतैव परिसमापनीयमित्याशङ्क्य स खल्वेवम् वर्तयन् यावदायषम् इत्यादिश्रवणात् आप्रायणात् अनुवर्तनीयमित्युक्तम् ॥ ६ ॥
तदधिगम इत्यत्र एव विदि पापम् कर्म न श्लिष्यते सर्वे पाप्मानः प्रदूयन्ते इत्यादिवाक्योक्तौ कर्मणाम् अश्लेषाविनाशौ, नाभुक्तम् क्षीयते कर्म इत्यादिना विरोधात् नोपपद्येते इत्याशङ्क्य नाभुक्तमिति वचनस्य कर्मणाम् फलजननशक्तिदार्ढ्यविषयत्वात्, अश्लेषविनाशश्रुत्योः विद्ययानुत्पन्नशक्तिप्रतिबन्धोत्पन्नशक्तिविनाशकरणविषयत्वाच्च विरोधा- भावात् उपपद्येते इत्युक्तम् ॥ ७ ॥
इतरस्येत्यत्र सुकृतस्यापि विद्याविरोधित्वासाम्यात् सुकृतदुष्कृते धूनुत इत्यादिव्यपदेशाच्च अश्लेषविनाशावुक्तौ ॥ ८ ॥
अनारब्धेत्यत्र सर्वे पाप्मानः प्रदूयन्ते इत्यविशेषेण श्रवणात् आरब्धकार्ययोरपि अश्लेषविनाशौ इत्याशङ्क्य तस्य तावदेव चिरम् यावन्न विमोक्ष्ये इत्यादिश्रवणात् अनारब्धकार्ययोरेव इत्युक्तम् ॥ ९ ॥
अग्निहोत्रादीत्यत्र अश्लिष्टफलतया उक्तपुण्यवत् अग्निहोत्राद्याश्रम-धर्माणामपि पुण्यत्वाविशेषात् फलाश्लेषावश्यम्भावे, निष्फले च अनुष्ठाने इच्छाऽऽसम्भवात् अग्निहोत्रादीनाम् अननुष्ठानमित्याशङ्क्य तमेतम् वेदानुवचनेन ब्राह्मणा विविदिषन्ति इत्यादौ अग्निहोत्रादीनाम् विविदिषो (विद्यो) त्पत्यर्थत्वस्य श्रुतत्वात् फलाश्लेषासम्भवेन विद्याख्यकार्य-निष्पत्तये तानि अनुष्ठेयानीत्युक्तम् ॥ १० ॥
भोगेन तु इत्यत्र आरब्धकार्ययोः पुण्यपापयोः किम् विद्यायोनिशरीरावसानत्वमेव तच्छरीरावसानत्वम् शरीरान्तरावसानत्वम् वेत्यनियम इति सम्शये तस्य तावदेव चिरम् यावान्न विमोक्ष्य इति तच्छरीरावसानत्वश्रवणात् विद्यायोनिशरीरावसानत्वमेवेत्याशङ्क्य, आरब्धफलयोः पुण्यापापयोः भोगेन क्षपयितव्यत्वात् यावन्न विमोक्ष्य इत्यस्य शरीरावध्य श्रवणेन प्रारब्धकर्ममोक्षावधिपरत्वात्, तयोश्च कर्मणोः एकशरीरानुभाव्यफलत्वे तदवधित्वम्, अनेकशरीरानु-भाव्यफलत्वे शरीरान्तरावसानत्वम् इत्युक्तम् ॥ ११ ॥
॥ (इति) चतुर्थास्याध्यायस्य प्रथमःपादः ॥
——————–
द्वितीये पादे उत्क्रान्तिप्रकारश्चिन्त्यते ।
तत्र वाङ् मनसीत्यत्र वाङ् मनसि सपद्यते इत्यादिवाक्ये वाग्वृत्तेः मनसि सम्पत्तिरित्याशङ्क्य वाक्शब्दस्य वाग्वृत्तिपरत्वाभावात् इन्द्रियस्यैव मनस्सम्पत्तिरित्युक्तम् ॥ १ ॥
तन्मन इत्यत्र मनः प्राण इति वाक्ये मनसः प्राणे लय इत्याशङ्क्य प्राणस्य मनः प्रकृतित्वाभावात् प्राणेन सम्योगमात्र-मित्युक्तम् ॥ २ ॥
सोऽध्यक्ष इत्यत्र प्राणस्तेजसीति श्रवणात् प्राणस्य तेजसि सम्पत्तिरित्याशङ्क्य आत्मानमन्तकाले सर्वे प्राणा अभिसमायान्ति इति जीवोपगमश्रवणात् जीवेन सम्युज्य तेन सह तेजस्सम्पत्तावपि, प्राणस्तेजसीति युज्यत इत्युक्तम् ॥ ३ ॥
भूतेषु इत्यत्र प्राणस्तेजसीति श्रवणात् जीवेन सम्युक्तस्य प्राणस्य तेजोमात्रे सम्पत्तिरित्याशङ्क्य पृथिवीमय आपोमय इत्यादिना सञ्चरतो जीवस्य सर्वभूतमयत्वश्रुतेः भूतान्तरसम्सृष्टतेजस्सम्पत्ति-रित्युक्तम् ॥ ४ ॥
समाना चेत्यत्र अथ मर्त्योऽमृतो भवति इति वाक्ये अत्र ब्रह्म समश्नुते इति इहैव अमृतत्ववचनात् विदुष उत्क्रान्तिः नास्तीत्या-शङ्क्य तयोर्ध्वमायन्नमृतत्वमेति इति विदुषोऽप्युत्क्रान्तिश्रवणात् अथ मर्त्योऽमृत इत्यादिवचनस्य अदग्धदेहसम्बन्धस्यैव उत्तरपूर्वा-र्धयोः अश्लेषविनाशरूपामृतत्वप्रतिपादनपरत्वाच्च विदुषोऽप्युत्क्रान्तिरस्ति । सा चानाडीप्रवेशात् विद्वदविदुषोस्समानेत्युक्तम् ॥ ५ ॥
तानि परे इत्यत्र जीवसम्युक्तानि तेजः प्रभृतीनि यथाकर्म यथा-विद्यम् च स्वकार्याय गच्छन्तीत्याशङ्क्य परस्याम् देवतायाम् इति श्रवणात् तानि परमात्मनि सम्पद्यन्त इत्युक्तम् ॥ ६ ॥
अविभागो वचनात् इत्यत्र तेजः प्रभृतीनाम् सर्वकारणभूते पर-मात्मनि लय इत्याशङ्क्य वाङ्मनसि सम्पद्यते इत्यस्य अनुषङ्गात् तस्य च सम्योगवाचित्वात् परमात्मनि तेषाम् सम्योग इत्युक्तम् ॥ ७ ॥
तदोकोऽग्रज्वलनम् इत्यत्र नाडीनाम् दुर्विवेचनत्वात् तयोर्ध्व-मायन्नमृतत्वमेतीति मूर्त्या (मूर्धन्यया) नाड्या उद्गमनम् न नियमितमित्याशङ्क्य परमात्मप्रसादेन प्रकाशितद्वारत्वात् मूर्ध्न्या (र्धन्यया) नाड्या उद्गमनम् नियमितमित्युक्तम् ॥ ८ ॥
रश्म्यनुसारी इत्यत्र अथैतैरेव रश्मिभिः ऊर्ध्वमाक्रमते इत्यादि- वाक्येनोक्तम् रश्म्यमनुसारेण गमनमनियतम् निशि मृतस्य रश्म्यनु-सारासम्भवादित्याशङ्क्य निश्यपि निदाघसमये औष्ण्योपलम्भात् रश्मिसद्भावावगमात् रश्म्यनुसारेण गमनमित्युक्तम् ॥ ९ ॥
निशि नेति चेत् इत्यत्र दिवा च शुक्लपक्षश्चेत्यादौ विपरीतम् तु गर्हिन्तमिति निशि मरणस्य गर्हिततया अधोगतिहेतुत्वात् निशि मृतस्य ब्रह्मप्राप्तिः नास्तीत्याशङ्क्य विदुष उत्तरपूर्वाघयोः अश्लेषविना-शाभ्याम् आरब्धकार्ययोरनुभवेन विनष्टत्वाच्च वन्धहेत्वभावात् विपरीतम् तु गर्हितमित्यस्याविद्वद्विषयत्वाच्च निशि मृतस्यापि ब्रह्मप्राप्तिरस्ती-त्यूक्तम् ॥ १० ॥
अतश्चेत्यत्र अथ यो दक्षिणे प्रमीयते इत्यादिवाक्ये दक्षि-णायनमृतस्य चन्द्रप्राप्तिश्रवणाच्चन्द्रम् प्राप्तानाम् च अथैतमेवाध्वानम् पुनर्निवर्तन्त इति पुनरावृत्तिश्रवणात् दक्षिणायनमृतस्य ब्रह्मप्राप्तिः नास्तीत्याशङ्क्य अविदुषामेव चन्द्रम् प्राप्तानाम् पुनरावृत्तिः विदुषाम् तु चन्द्रम् प्राप्तानाम् तस्मात् ब्रह्मणो महिमानमाप्नोति इति वाक्यशेषे ब्रह्मप्राप्तिश्रुतेः दक्षिणायनमृतानामपि ब्रह्मप्राप्तिरस्तीत्युक्तम् ॥ ११ ॥
॥ (इति) चतुर्थस्याध्यायस्य द्वितीयः पादः ॥
————-
उत्क्रान्तिश्चिन्तिता । अथ मार्गश्चिन्त्यते ।
अर्चिरादिनेत्यत्र छान्दोग्यकौषीतकीप्रभृतिषु बहुविधमार्गाम्नानात् ब्रह्मविदाम् अर्चिरादिमार्गेणैव गमनमिति नियमो नास्तीत्याशङ्क्य सर्वत्रापि अर्चिरादिमार्गैकत्वप्रत्यभिज्ञानात् एक एव मार्ग इति तेनैव मार्गेण सर्वे गच्छन्तीत्युक्तम् ॥ १ ॥
वायुमित्यत्र छान्दोग्ये वाजसनेयके च आदित्यात् पूर्वमभि-हितयोः वायुदेवलोकयोः श्रौतक्रमविशेषात् अनियमेन प्राप्तिरित्याशङ्क्य वायुदेवलोकशब्दाभ्याम् सामान्यविशेषरूपाभ्याम् एकस्यैव प्रतिपादनात् पर्वभेदाभावेन नियमेन प्राप्तिरित्युक्तम् ॥ २ ॥
तडित इत्यत्र कौषीतकिनाम् स वायुलोकम्, स वरुणलोकम्, इत्यादिवाक्ये वायोरनन्तरनेर्दिष्टानाम् वरुणादीनाम् यथापाठम् तत्रैव निवेश इत्याशङ्क्य तटिद्वरुणयोः मेघोदरोपर्यधोभागे भवस्थानरूप-सम्बन्धात् तटितः अनन्तरमेव वरुणादीनाम् निवेश इत्युक्तम् ॥ ३ ॥
आतिवाहिका इत्यत्र अर्चिरादिप्रतिपादकवाक्यानाम् लौकिकवाक्यो (मार्गो) पदेशरूपत्वात् अर्चिरादयो मार्गाचिह्नभूताः अथवा अहरादीनाम् मार्गचिह्नत्वोपपत्तेः लोकशब्दश्रवणाच्च ते भोगभूमय इत्याशङ्क्य तत्पुरुषोऽमानवस्स एनान् ब्रह्म गमयतीत्युपसम्हारे गमयितृविशेष-श्रवणात् पुर्वेषामप्यविशेषेण श्रुतानाम् तदेव न्यायमित्यर्चिरादयः आतिवाहिका इत्युक्तम् ॥ ४ ॥
कार्यम् बादरिः इत्यत्र कार्यहिरण्यगर्भमुपासीनानातिवाहिको नयति । तस्यैव देश (काल) विशेषवर्तितया (तत्प्राप्य ) गत्युपपत्तेरिति बादरिमतमनूद्य स एनान् ब्रह्म गमयतीति ब्रह्मशब्दस्य परमात्मन्येव मुख्यवृत्तत्वात् परमात्मनः सर्वगतत्वेऽपि निरवशेषाविद्यानिवृत्यर्थम् देश विशेषगत्युपपत्तेः परमेव ब्रह्मोपासीनान्नयतीति जैमिनिमतेनापोद्य, तद्य इत्थम् विदुः ये चेमेऽरण्ये श्रद्धाम् सत्यमित्युपासते तेऽर्चिषमेवाभि-सम्भवन्तीति पञ्चाग्निविद्यानिष्ठानाम् परब्रह्मोपासकानाम् च अर्चिरादि-गतिश्रवणात् प्रतीकालम्बनव्यतिरिक्तान् नयतीति स्वमतमुपन्यस्तम् ॥ ५ ॥
॥ (इति)चर्तुथस्याध्यायस्य तृतीयः पादः ॥
————————
एवम् अर्चिरादिगतिः निरूपिता । अथ मुक्तानाम् ऐश्वर्यप्रकार-श्चिन्त्यते ।
तत्र सम्पद्याविः इत्यत्र परम् ज्योतिरुपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते इति अभिनिष्पत्तिश्रवणात् साध्येन रूपेण सम्बध्यते इत्याशङ्क्य स्वेन रूपेणेति स्वाभाविकत्व श्रवणात् अभिनिष्पत्ति-वचनस्य अभिव्यक्तावपि प्रयोगात् स्वाभाविकेन रूपेण सम्बध्यते इत्युक्तम् ॥ १ ॥
अविभागेनेत्यत्र निरञ्जनः परमम् साम्यमुपैतीति मुक्तस्य साम्यापत्तिश्रवणात् पृथग्भूतस्यैव साम्यसम्भवात् मुक्तःस्वस्मात् पृथग्भूतमेव परमात्मानमनुभवतीत्याशङ्क्यप्रत्यगात्म स्वरूपस्य ब्रह्मप्रकारतैकस्वभावत्वात् तस्य च निरस्ताविद्यातिरोधानतया याथातथ्येन दृष्टत्वात् प्रकारभूतस्यापि गुणाष्टकयोगेन परमात्मसाम्यस्य सम्भवाच्च अविभागेनानुभव इत्युक्तम् ॥ २ ॥
ब्राह्मेण जैमिनिः इत्यत्र स्वेन रूपेण अभिनिष्पद्यते इत्यत्र अभिनिष्पद्यतया उक्तम् रूपम् किम् अपहतपाप्मत्वादिकमेव उत ज्ञान-मात्रमेव उत उभयमिति विशये मुक्तमधिकृत्य अपहतपाप्मत्वाद्यु-पन्यासात् तेनैव रूपेणाविर्भवति मुक्त इति जैमिनिमतमनूद्य विज्ञानघन
एवेत्यादिषु ज्ञानमात्रमेवास्य रूपमित्यवगमात् अपहतपाप्मत्वादि-शब्दानाम् शोकाद्यभावपरत्वाच्च ज्ञानमात्रस्वरूपेण आविर्भवतीति औडुलोमिमतमुपन्यस्य पक्षद्वयेऽपि अन्यतरश्रुतिबाधरूप-दोषात् विज्ञानघन एव इत्यवधारणस्य एकदेशे जडत्वशङ्काव्युदासपरत्वेन गुणान्तरप्रतिक्षेपकत्वाभावात् उभयरूपेण आविर्भवतीति स्वमतेन मतद्वयम् प्रतिक्षिप्तम् ॥ ३ ॥
सङ्कल्पादेव तु इत्यत्र सत्यसङ्कल्पत्वेन वर्ण्यमानानाम् राज्ञाम् कार्यनिष्पादने प्रयत्नसापेक्षत्वदर्शनात् मुक्तस्य सत्यसङ्कल्पस्यापि पितृलोकादिसृष्टिः प्रयत्नसापेक्षेत्याशङ्क्य सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीति अवधारणात् प्रयत्नसापेक्षत्वे प्रमाणाभावाच्च सङ्कल्प-मात्रादेव सृष्टिरित्युक्तम् ॥ ४ ॥
आभावम् बादरि; इत्यत्र शरीरस्य दुःखहेतुत्वात् मुक्त अशरीर एवेति बादरिमतमनूद्य एकधा भवति इत्यादिषु मुक्तस्य अनेकधाभाव-श्रवणात् अच्छेद्यस्य निरवयवस्य शरीरेण विना अनेकधाभावानुपपत्तेः कर्मकृतशरीरस्यैव दुःखेहेतुत्वाच्च सशरीर एवायमिति जैमिनिमतेन तत्प्रतिक्षिप्य सत्यसङ्कल्पोऽयम् इच्छानुरोधेन कदाचित् सशरीरः कदाचित् अशरीरः इति स्वमतमुपन्यस्तम् ॥ ५ ॥
जगद्व्यापारेत्यत्र मुक्तस्य भगवतः परमसाम्यापत्तिश्रवणात् जगन्नियमनादिकमपि मुक्तस्य ऐश्वर्यमित्याशङ्क्य जगन्नियमन-प्रतिपादनेषु परमात्मनः प्रकृतत्वात् मुक्तस्य असन्निहितत्वाच्च भोगमात्रम् सम्भवतीत्युक्तम् ॥ ६ ॥
“अनावृत्तिः शब्दादित्यत्र भगवत्स्वातन्त्र्यान्मुक्तस्य पुनरावृत्तिः सम्भवतीत्याशङ्क्य इमम् मानवमावर्तम् नावर्तन्त इत्यादिना अनावृत्ति श्रवणात् आश्रितस्यामुग्धस्य भगवतः तन्निवर्तनसङ्कल्पा-भावाच्च मुक्तस्य पुनरावृत्तिः न सम्भवतीत्युपसम्हृतम् ॥ ७ ॥
इति श्रीवाधूलकुलधुरन्धरस्य आश्रुतमीमाम्सावल्लभस्य श्रीमहाचार्यस्य कृतिषु श्रीभाष्योपन्यासे चतुर्थस्य अध्यायस्य चतुर्थः पादः ॥
॥ समाप्तश्च चतुर्थोऽध्यायः ॥
॥ ग्रन्थश्च समाप्तः ॥
॥शुभमस्तु ॥
श्रीः
——————