श्रीमहाचार्यैः विरचितः श्रीभाष्योपन्यासः
॥ अथ द्वितीयोऽध्यायः ॥
एवम् प्रथमे अध्याये चिदचिद्विलक्षणम् ब्रह्म सकलजगदेककारण-मित्युक्तम् । अस्यैव अर्थस्य
सम्भावितसमस्तप्रकारदुर्धर्षणत्वज्ञापनाय द्वितीयोऽध्याय आरभ्यते ॥
तत्र प्रथमे पादे स्वपक्षे कारणविषये परोक्तदूषणपरिहारः क्रियते ।
तत्र स्मृत्यनवकाशे त्यत्र वेदान्तानाम् ब्रह्मकारणत्वपरत्वे परमर्षि- प्रणीतायाः साङ्ख्यस्मृतेः निरवकाशत्वप्रसङ्गात् प्रधानमेव कारणमित्य-शङ्क्य मन्वादिपरमर्षिप्रणीतानाम् बह्वीनाम् स्मृतीनाम् अनवकाशत्व-प्रसङ्गात् ब्रह्मैव कारणमित्युक्तम् ॥ १ ॥
एतेन योग इत्यत्र योगस्मृतेः सर्ववेदप्रवर्तनाधिकृतहिरण्यगर्भ-प्रणीतत्वात् तदनुरोधेन वेदान्तार्थवर्णनम् कार्यमित्याशङ्क्य हिरण्य-गर्भस्यापि क्षेत्रज्ञभूतस्य रजस्तमोऽभिभवसम्भवात् तदुक्तपुराणान्तरवत् योगस्मृतिरपि तन्मूलेति न तया वेदान्तोपरब्रह्मणम् कार्यमित्युक्तम् ॥ २ ॥
न विलक्षणत्वात् इत्यत्र अचेतनस्य जगतः सर्वज्ञात् ब्रह्मणो विलक्षणत्वात्, विलक्षणयोः कार्यकारणभावासम्भवाच्च अचेतनम् प्रधानमेव जगत्कारणम् इत्याशङ्क्य विलक्षणानामपि गोमय-वृश्चिकादीनाम् कार्यकारणभावदर्शनात् ब्रह्मैव कारणमित्युक्तम् ॥ ३ ॥
एतेन शिष्टापरिग्रहा अपि व्याख्याता इत्यत्र काणादाक्षपादबौद्धा-दीनाम् परमाणुकारणवादे सम्वादात् तत्तत्पक्षानुरोधेन कारणम् वक्तव्य-मित्याशङ्क्य तावन्मात्रसम्वादेऽपि तर्कमूलकत्वाविशेषात् परमाणु-स्वरूपेऽपि क्षणिकत्वाक्षणिकत्वाद्यवान्तरविवादसम्भवाच्च तेऽपि पक्षा अनादर्तव्याः इत्युक्तम् ॥ ४ ॥
भोक्तापत्तेः इत्यत्र चिदचिद्वस्तुशरीरकस्य ब्रह्मणः कारणत्वे ब्रह्मणः सशरीरत्वात् सुखदुःखभोक्तृत्वप्रसङ्ग इत्याशङ्क्य सुखदुःखानुभवस्य कर्मनिमित्तत्वात् अकर्मवश्यस्य न सुखदुःखभोक्तृत्वप्रसङ्गः इत्युक्तम् ॥ ५ ॥
तदनन्यत्वमित्यत्र बुद्धिशब्दान्तरादिभिः कार्यकारणयोरन्यत्वात् ब्रह्मणोऽन्यज्जगदित्याशङ्क्य वाचार ङ्काः भणमित्यादिभिः कार्य-कारणयोरनन्यत्वप्रतिपादनात्बुद्धिशब्दान्तरादीनाम् अवस्था(न्तरत्वे) भेदेन उपपत्तेश्च ब्रह्मणोऽनन्यज्जगदित्युक्तम् ॥ ६ ॥
इतरव्यपदेशात् इत्यत्र जगद्ब्रह्मणोरनन्यत्वे जीवस्यापि ब्रह्मणो-ऽनन्यत्वाद्धितरूपा जगदका(क)रणादिदोषप्रसङ्ग इत्याशङ्क्य य आत्मनि तिष्ठन् इत्यादिभिः जीवब्रह्मणोर्भेदव्यपदेशान्न हिताका(क)- रणादिदोषप्रसङ्ग इत्युक्तम् ॥ ७ ॥
उपसम्हारदर्शनात् इत्यत्र कुलालादीनाम् घटादिनिर्माणशक्तानामपि उपकरणसापेक्षत्व दर्शनात् ब्रह्मणः उपकरणरहितस्य कारणत्वम् न सम्भवतीत्याशङ्क्य क्षीरादीनाम् उपकरणरहितानामपि दध्याद्यारम्भक-त्वदर्शनात् विचित्रशक्तेर्ब्रह्मणः उपकरणरहितस्य जगदारम्भकत्वम् सम्भवतीत्युक्तम् ॥ ८ ॥
कृत्स्नप्रसक्तिरित्यत्र निरवयवस्य ब्रह्मणः कारणत्वे कृत्स्नस्यापि ब्रह्मणः कार्योपयुक्तत्व प्रसङ्गात् ब्रह्मकारणत्वमसमञ्जसमित्याशङ्क्य ब्रह्मणो निरवयवत्वस्य, विचित्रजगत्कारणत्वस्य च श्रुतिप्रतिपादितत्वात् श्रुतिप्रतिपादितार्थस्य युक्त्या बाधायोगाच्च ब्रह्मकारणत्वम् समञ्जस-मित्युक्तम् ॥ ९ ॥
न प्रयोजनवत्वात् इत्यधिकरणे ब्रह्मणः अवाप्तसमस्तकामस्य प्रयोजनाभावात् जगत्स्रष्टृत्वम् न सम्भवतीत्याशङ्क्य अवाप्तसमस्त-कामस्यापि लीलारूपप्रयोजनसम्भवात् स्रष्टृत्वम् सम्भवतीत्युक्तम् ॥ १० ॥
॥ इति श्रीभाष्योपन्यासे द्वितीयस्याध्यायस्य प्रथमः पादः ॥
————————
एवम् स्वपक्षे परैः उद्भाविता दोषाः परिहृताः । अनन्तरम् स्वपक्ष-रक्षणाय परपक्षाः प्रतिक्षिप्यन्ते द्वितीयपादेन ।
तत्र रचनानुपपत्तेरित्यत्र प्रधानस्य अचेतनत्वात्, अचेतनानाम् चेतनाधिष्ठितत्वेन कार्यारम्भकत्वस्याप्यन्वयव्यतिरेकाभ्याम् निश्चितत्वात् केवलप्रधानकारणवादे जगद्रचना न सम्भवतीत्युक्तम् ॥ १ ॥
महद्दीर्घवत् इत्यत्र परमाणूनाम् निरवयवत्वेन प्रदेशभेदमनपेक्ष्य सम्युज्यमानानाम् अधिकपरिमाणद्रव्यारम्भकत्वानुपपत्यादिभिः कणाद-पक्षोऽप्यसमञ्जस इत्युक्तम् ॥ २ ॥
समुदाय उभयहेतुकेऽपि इत्यत्र क्षणिकानाम् परमाण्वादीनाम् कार्यारम्भकत्वानुपपत्यादिभिः वैभाषिकसौत्रान्तिकपक्षावप्यसमञ्जसा-वित्युक्तम् ॥ ३ ॥
नाभाव उपलब्धेः इत्यत्र योगाचाराभिमतम् ज्ञानानामर्थशून्यत्व-माशङ्क्य ज्ञातुः अर्थविशेषसिद्धिरूपतयैव ज्ञानस्योपलब्धेः सम्प्रतिपन्न-ज्ञानवत् बाधादर्शनाच्च तदयुक्तमित्युक्तम् ॥ ४ ॥
सर्वेथा अनुपपत्तेः इत्यत्र सत्वासत्वयोः अवस्थाविशेषरूपत्वात् असदितिप्रतिज्ञायामपि, सदितिप्रतिज्ञायामिव माध्यमिकाभिमततुच्छत्वा-नुपपत्तेःतन्मतमप्यनुपपन्नमित्युक्तम् ॥ ५ ॥
नैकस्मिन्नसम्भवात् इत्यत्र कृत्स्नम् जगत् सत्वासत्वादिभिः अनैकान्तिकमिति जैनमतमाशङ्क्य एकस्मिन् वस्तुनि सत्वासत्वा-दीनाम् विरुद्धधर्माणामनुपपत्तेः तदप्यनादरणीय मित्युक्तम् ॥ ६ ॥
पत्युरसामञ्जस्यादित्यत्र वेदविरुद्धत्वात् असामञ्जस्याच्च पशुपतेः मतमनादरणीयमित्युक्तम् ॥ ७ ॥
उत्पत्यसम्भवादित्यत्र वासुदेवात् सङ्कर्षणो नाम जीवो जायते इत्यादिषु वेदविरुद्धस्य जीवोत्पत्त्यादेः प्रतिपादनात् पाञ्च-रात्रतन्त्रमपि अप्रामाणिकमित्याशङ्क्य जीवादिशब्दानाम् जीवाद्यभि-मानिपरब्रह्मव्यूहपरत्वेन जीवोत्पत्तिप्रतिपादनाभावात् परमाप्तनारायण-प्रणीतत्वाच्च पाञ्चरात्रशास्त्रम् प्रामाणिकमित्युक्तम् ॥ ८ ॥
॥ (इति) द्वितीयस्याध्यायस्य द्वितीयः पादः ॥
एवम् परपक्षाः प्रतिक्षिप्ताः । अथ स्वपक्षस्य निर्दोषत्वख्यापनाय चिदचिदात्मकप्रपञ्चस्य कार्यताप्रकारो विशोध्यते ॥
न वियदश्रुतेः इत्यत्र छान्दोग्ये तेजःप्रभृतीनामेवोत्पत्तिश्रवणात् आकाशस्योत्पत्यश्रवणात् वियन्नोत्पद्यते इत्याशङ्क्य तस्माद्वा एत-स्मादित्यादिषु आकाशस्याप्युत्पत्तिप्रतिपादनात्छान्दोग्येऽपि एक-विज्ञानेन सर्वविज्ञानप्रतिज्ञानात् वियदादेरपि कार्यत्वावगमाच्च वियदुत्पद्यत इत्युक्तम् ॥ १ ॥
तेजोऽत इत्यत्र वायोरग्निरित्यादिवाक्येषु वाय्वादिभ्य एव अग्नयादीनामुत्पत्तिश्रवणात् केवलवाय्वादिभ्य एव अग्नयादीनामुत्पत्ति-रित्याशङ्क्य तत्तेज ऐक्षत आप ऐक्षन्त इत्यादिभिः ब्रह्मासाधारणे-क्षणात्तच्छरीरकाद् ब्रह्मण एवाग्न्यादीनामुत्पत्तिरित्युक्तम् ॥ २ ॥
नात्माश्रुतेः इत्यत्र तोयेन जीवान्व्यससर्ज भूम्याम् इत्यादिषु जीवानामप्युत्पत्यभिधानात् आत्माप्युत्पद्येत इत्याशङ्क्य न जायते म्रियते वा विपश्चित् इत्यादिषु जीवस्य उत्पत्तिनिषेधात् उत्पत्तिवादि-नीनाम् श्रुतीनाम् देहसम्बन्धाभिप्रायकत्वाच्च आत्मा नोत्पद्यत इत्युक्तम् ॥ ३ ॥
ज्ञोऽत एवेत्यत्र यो विज्ञाने तिष्ठन् इत्यादिषु ज्ञानमात्रत्व-प्रतिपादनात् ज्ञानमात्रमेव आत्मनः स्वरूपमित्याशङ्क्य विज्ञातारमरे केन विज्ञानीयात् इत्यादिषु ज्ञातृत्वप्रतिपादनात् ज्ञानस्य अपृथक्सिद्ध-धर्मतया तद्वाचिना विज्ञानशब्देन ज्ञातुरेव व्यपदेशोपपत्तेश्च आत्मा ज्ञातै-वेत्युक्तम् ॥ ४ ॥
कर्ता शास्त्रार्थवत्वात् इत्यत्र प्रकृतेः क्रियमाणानि इत्यादिषु गुणानामेव कर्तृत्वप्रतिपादनात् आत्मा न कर्तेत्याशङ्क्य स्वर्गकामो यजेतेत्यादीनाम् भोक्तारमेव कर्मसु नियुञ्जानानाम् शास्त्राणामर्थवत्वात् प्रकृतेः क्रियमाणानीत्यादिर्जीवस्य साम्सारिककर्तृत्वस्य गुणसम्सर्गा-यत्तता प्रतिपादनपरत्वाच्च आत्मा कर्तेत्युक्तम् ॥ ५ ॥
परात्तु तच्छ्रुतेः इत्यत्र जीवस्य स्वतः प्रवृत्त्यभावे विधि-निषेधशास्त्रानर्थक्यप्रसङ्गात् जीवस्य कर्तृत्वम् स्वातन्त्र्येणेत्याशङ्क्य अन्तः प्रविष्टः शास्ता जनानाम् इत्यादिभिः परमात्माधीनकर्तृत्व- श्रवणात् तदधीनत्वेऽपि प्रथमप्रवृत्तौ चेतनस्य स्वतन्त्रतया विधिनिषेध-शास्त्रानर्थक्याभावेन च पराधीनमेव कर्तृत्वमित्युक्तम् ॥ ६ ॥
अम्शो नानेत्यत्र ज्ञाज्ञौ द्वावपि अजावीशानीशावि(?)त्यादि-वाक्ये जीवब्रह्मणोः भेदव्यपदेशात् परमपुरुषादत्यन्तभिन्नो जीवः; यद्वा तत्वमसीत्यादिषु जीवपरयोरैक्योपदेशात् अविद्याद्युपहितम् ब्रह्मैव जीव इत्याशङ्क्य नानात्वोपदेशात् ऐक्योपदेशाच्च अत्यन्तभेदस्वरूपैक्ययो-रनुपपन्नत्वात्, अविद्याद्युपहितस्य ब्रह्मण एव जीवत्वे सुखदुःखोपभोग-व्यतिकरप्रसङ्गाच्च परमात्मनो विशेषणतयाम्शो जीव इत्युक्तम् ॥ ७ ॥
॥ (इति) द्वितीयस्याध्यायस्यः तृतीयःपादः ॥
——————
एवम् वियदादीनाम् उत्पत्तिः निरूपिता । आत्मनाम् तु विय-दादिवत् उत्पत्तिः नास्तीत्युक्तम् । तत्प्रसङ्गेन तेषाम् ज्ञातृत्वम् च निरूपितम् । अनन्तरपादेन जीवोपकरणानाम् उत्पत्तिः निरूप्यते ।
तत्र तथा प्राणा इत्यत्र असद्वा इदमग्र आसीत् इत्यादिवाक्ये, प्राणशब्दनिर्दिष्टानाम् इन्द्रियाणाम् प्रलयकालेऽप्यवस्थानप्रतीतेः, इन्द्रि-याणि नोत्पद्यन्त इत्याशङ्क्य एतस्मात् जायते प्राणः इत्यादिवाक्ये इन्द्रियाणामुत्पत्तिश्रवणात्, असद्वा इदमग्र आसीत् इत्यादिवाक्ये प्राण-शब्दस्य परमात्मपरत्वाच्च इन्द्रियाणि उत्पद्यन्त इत्युक्तम् ॥ १ ॥
सप्त गतेः इत्यत्र सप्त इमे लोका येषु इत्यादिवाक्ये सप्ता-नमेव जीवेन सह गतिश्रवणात् सप्तैव इन्द्रियाणि इत्याशङ्क्य दशेमे पुरुषे प्राणा आत्मा एकादश इत्यादिवाक्ये एकादशेन्द्रिय श्रवणात् हस्तादीनामपि देहस्थजीवोपकरणत्वाविशेषाच्च एकादशैवेन्द्रियाणी-त्युक्तम् ॥ २ ॥
अणवश्च इत्यत्र सर्व एव समाः सर्व एव अनन्ताः इत्या-दिना आनन्त्यश्रवणात् इन्द्रियाणि विभूनि इत्याशङ्क्य प्राणमुत्क्रा-मन्तम् सर्वे प्राणा अनुत्क्रामन्ति इति उत्क्रान्तिश्रवणात् उत्क्रान्ति-काले पार्श्वस्थैरनुपलभ्यमानत्वात्, आनत्यश्रुतेः उपासनार्थकार्यानन्त्य-परत्वाच्च अणूनि इत्युक्तम् ॥ ३ ॥
न वाय्वित्यत्र यः प्राणः सः वायुः इति व्यपदेशात् प्राणो वायुः, यद्वा उच्छवासनिश्वासादिषु प्राणप्रसिद्धेः वायुक्रियैव प्राण इत्या-शङ्क्य एतस्माज्जायते प्राणः इत्यादिवाक्ये अवस्थान्तरापन्नस्यैव वायोः प्राणत्वेन यः प्राणः स वायुः इ(त्युक्त)ति व्यपदेशोपपत्तेः प्राणः स्पन्दते इति क्रियावति प्राणप्रसिद्धेश्च न वायुक्रिये प्राण इत्युक्तम् ॥ ४ ॥
अणुश्चेत्यत्र सर्वम् हि इदम् प्राणेनावृतम् इत्यादिश्रवणात् प्राणो विभुरित्याशङ्क्य तमुत्क्रामन्तम् प्राणोऽनूत्क्रामति इत्युत्क्रा-न्तिश्रवणात् सर्वम् हीदम् प्राणेनावृतमित्यादिवाक्यस्य सर्वेषाम् प्राणाधीनजीवनत्वप्रतिपादनपरत्वाच्च अणुः प्राणः इत्युक्तम् ॥ ५ ॥
ज्योतिराद्यधिष्ठानम् इत्यत्र जीवस्य अग्न्यादिदेवतानाम् च प्राणविषयमधिष्ठानम् स्वाधीनम् नैरपेक्ष्यप्रतीतेः इत्याशङ्क्य यस्याग्निः शरीरम् इत्यादौ अग्नयादीनावाच्य परमात्माधीनस्वरूपत्व प्रतिपादनात् तेषामधिष्ठानम् परमात्माधीनमित्युक्तम् ॥ ६ ॥
त इन्द्रियाणि तद्व्यपदेशात् इत्यत्र सर्वेषाम् प्राणशब्दवाच्य-त्वात् जीवोपकरणत्वाविशेषाच्च सर्वे प्राणा इन्द्रियाणीत्याशङ्क्य इन्द्रियाणि दशैकम् चेत्यादिषु मुख्यप्राणव्यतिरिक्तानामेव इन्द्रियत्व-व्यपदेशात्; एतस्मात् जायत इत्यादिवाक्ये पृथङ्निर्देशाच्च मुख्यप्राण-व्यतिरिक्ता एव इन्द्रियाणीत्युक्तम् ॥ ७ ॥
सञ्ज्ञा मूर्तिकॢप्तिः इत्यत्र अनेन जीवेनात्मनानुप्रविश्य इति नामरूपव्याकरणस्य जीवकर्तृत्वश्रवणात् व्यष्टिसृष्टिर्हिरण्यगर्भकर्तृके-त्याशङ्क्य नामरूपे व्याकरवाणि **तासाम् त्रिवृतम् त्रिवृतम् एकैकाम् करवाणीति त्रिवृत्कुर्वत एव नामरूपव्याकरणोपदेशात् त्रिवृत्करणस्य हिरण्यगर्भकर्तृत्वानुपपत्तेः अनेन जीवेनेति जीवशब्दस्य जीवशरीरक-परमात्मपरत्वाच्च हिरण्यगर्भशरीरकपरमात्मकर्तृकैव व्यष्टिसृष्टिरित्युक्तम् ॥ ८ ॥
॥ (इति) श्रीमहाचार्यस्य कृतिषु श्रीभाष्योपन्यासे
द्वितीयस्याध्यास्य चतुर्थः पादः ॥
॥ समाप्तश्चाध्यायः ॥