विश्वास-प्रस्तुतिः
द्रव्यम् एवं निरूप्याथ
तद् अद्रव्यं निरूप्यते ।
शुद्ध-सत्त्वं मिश्र-सत्त्वम्
इति सत्त्वं द्विधा मतम् ॥ १०.१॥
कृष्णमाचार्यः (सं)
पूर्वापरसंगतिप्रदर्शनपूर्वकमद्रव्यनिरूपणं प्रतिजानीते - द्रव्यमिति । अद्र- व्यमिति । आगन्तुकावस्थावद् द्रव्यम् । तदन्यदद्रव्यम् । अद्रव्याणि च दशधा — सत्त्वरजस्तमांसि, शब्दस्पर्शरूपरसगन्धाः, संयोगः, शक्तिश्चेति । इमानि च द्रव्यं प्रत्यपृथक्सिद्धविशेषणानि भवन्ति । अतस्तेषां गुणत्वेन व्यवहारः शास्त्रेषु । वैशेषिकाद्यभिमतानां गुरुत्वद्रवत्वादीनां यथासंभवं क्लृप्तेषु पदार्थेष्वेवान्तर्भावः सिद्धान्तिसंमतः । तत्र प्रथमं सत्त्वं निरूपयिष्यन् तस्य द्वैविध्यमाह — शुद्धसत्त्वमिति ।
१
कृष्णमाचार्यः (En)
- Subsequent to the treatment of the substance, now the non-substance is explained. Sattva is considered to be of two kinds-Pure and Mixed.
मूलम्
द्रव्यमेवं निरूप्याथ तदद्रव्यं निरूप्यते ।
शुद्धसत्त्वं मिश्रसत्त्वमिति सत्त्वं द्विधा मतम् ॥ १०.१॥
विश्वास-प्रस्तुतिः
रजस्तमोभ्याम् अस्पृष्टम्
अद्रव्यं पूर्वम्+++(→शुद्धम्)+++ उच्यते ।
रजस् तमो-विमिश्रं तु
मिश्र-सत्त्वं प्रकीर्तितम् ॥ १०.२॥
कृष्णमाचार्यः (सं)
तत्र शुद्धसत्त्वस्वरूपमाह - रज इति । सत्त्वस्य रजस्तमोभ्यामस्पर्शो नाम सामानाधिकरण्यसंबन्धेन तद्रहितत्वम् । रजस्तमः शून्यद्रव्यवृत्ति सत्त्वं शुद्ध- सत्त्वमित्यर्थः । तच्च नित्यविभूतौ ईश्वरादिदेहे च । मिश्रसत्त्वमाह – रजस्तम इति । सामानाधिकरण्यसंबन्धेन रजस्तमोविशिष्टं सत्त्वं मिश्रसत्त्वमित्यर्थः । तच्च
20
११५
त्रिगुणे तद्विकारेषु च । शुद्धरजः शुद्धतमश्च न स्तः । एवमेषामद्रव्यत्वपरि- गणनेन तेषां द्रव्यत्ववादः सांख्याद्यभिमतः प्रत्युक्तः ।
२
कृष्णमाचार्यः (En)
- Sattva which is not associated with Rajas and Tamas is called the former (Pure-Sattva). Sattva which is associated with Rajas and Tamas is called Mixed-Sattva.
मूलम्
रजस्तमोभ्यामस्पृष्टमद्रव्यं पूर्वमुच्यते ।
रजस्तमोविमिश्रं तु मिश्रसत्त्वं प्रकीर्तितम् ॥ १०.२॥
विश्वास-प्रस्तुतिः
अतीन्द्रियं प्रकाशादि-
निदानं सत्त्व-शब्दितम् ।
रजो लोभ-प्रवृत्त्य्-आदि-
निदानं कीर्त्यते, तमः /.. ॥ १०.३॥
कृष्णमाचार्यः (सं)
सत्त्वादीनां स्वरूपमाह- अतीन्द्रियेति । अतीन्द्रियत्वे सति प्रकाशादि- कारणमद्रव्यं सत्त्वमिति तल्लक्षणम् । शब्दादिव्यावृत्त्यर्थमतीन्द्रियत्वविशेषणम् । रजस्तमोव्यावृत्त्यर्थं द्वितीयं विशेषणम् । तादृशद्रव्यव्यावृत्त्यर्थमद्रव्यमिति विशेष्यम् । रजसो लक्षणमाह —लोभेति । अत्राप्यतीन्द्रियत्वादिविशेषणं तत्प्रयोजनं चानुसंधेयम् । तम इत्युत्तरत्रान्वितं लक्ष्यनिर्देशः ।
३
कृष्णमाचार्यः (En)
- Sattva which is beyond the range of the senses brings about the brightness to the objects. Rajas is said to give rise to avarice, activity etc. Tamas is described as following:
मूलम्
अतीन्द्रियं प्रकाशादिनिदानं सत्त्वशब्दितम् ।
रजो लोभप्रवृत्त्यादिनिदानं कीर्त्यते तमः ॥ १०.३॥
विश्वास-प्रस्तुतिः
… प्रमाद-मोहादि-हेतुर्,
इत्थं त्रैगुण्य-रूपणम् ।
लये समानि चैतानि,
विषमाण्य् उदयादिषु ॥ १०.४॥
कृष्णमाचार्यः (सं)
प्रमादेति । अत्राप्यतीन्द्रियत्वादिविशेषणं तत्प्रयोजनं चानुसंधेयम् । एवं त्रैगुण्यनिरूपणं कृतमित्युपसंहारः । सत्त्वादीनां स्वभावः कार्याणि च भगवता स्पष्टमगायिषत । यथा–
[[११६]]
“सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्त्य तु तमः प्रमादे सञ्जयत्युत ।
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ।
सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत ।
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ।
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन । ”
" ऊर्ध्वं गच्छन्ति सत्त्वस्था
मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था
अधो गच्छन्ति तामसाः । "
“यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ ”
“आयुः सत्त्वबलारोग्य-
सुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या
आहाराः सात्त्विकप्रियाः ।
कट्वम्ल-लवणात्युष्ण-
तीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा
दुःखशोकामयप्रदाः ।
यातयामं गतरसं
पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं
भोजनं तामसप्रियम् । ”
इत्यादि । एतानि सत्त्वरजस्तमांसि लये प्रलयकाले समानि; परस्परं न्यून- ताधिक्यवर्जितानि समप्रमाणानि भवन्ति । उदयादिषु उत्पत्तिस्थितिषु विरूपाणि विषमाणि । तत्तत्पुरुषीयादृष्टभेदात् तत्तद्देहेषु तद्द्वारा पुरुषेषु च न्यूनाधिकभावेन संबद्धानि सुखादिकार्यजनकानि भवन्तीत्यर्थः ।
४
कृष्णमाचार्यः (En)
- It (Tamas) is the cause for carelessness, delusion and others. Thus is triad of qualities. During the dissolution of the world, these qualities remain in the state of equilibrium. But when the creation takes place, they become divercified.
मूलम्
प्रमादमोहादिहेतुरित्थं त्रैगुण्यरूपणम् ।
लये समानि चैतानि विषमाण्युदयादिषु ॥ १०.४॥
1 त्रैगुण्यस्य -निरूपणम् B.
विश्वास-प्रस्तुतिः
श्रोत्र-ग्राह्यो गुणः शब्दो
वर्णावर्णात्मना द्विधा ।
तालु-भेर्यादि-जत्वेन
भूत-पञ्चकवर्त्य् असौ ॥ १०.५॥
कृष्णमाचार्यः (सं)
११७
गुणत्रयं निरूप्यानन्तरं शब्दं लक्षयति-श्रोत्रेति । गुण इति स्वरूप- कथनम् । न तु लक्षणकोटिप्रविष्टं, प्रयोजनाभावात् । नैयायिकानां तु शब्दत्व- जातिव्यावृत्तये गुणशब्द आवश्यकः । अस्माकं तु जात्यनङ्गीकारान्नावश्यक इति भावः । स च शब्दो द्विधा - वर्णात्मकः, ध्वन्यात्मकश्चेति । मानुष- ताल्वादिस्थानजन्यो वर्णात्मकः । भेरीमृदङ्गादिजन्यो ध्वन्यात्मकः । तत्र वर्णात्मकोऽकारादिक्षकारान्त एकपञ्चाशत्प्रकारः । मातृकापाठे लळयोरभेदात् क्वचित्पञ्चाशत्प्रकारतया व्यपदेशः । क्रत्यादयः संध्यक्षरा इति न पृथक्परि- गण्यन्ते । एचां तु संध्यक्षरत्वेऽपि पृथग्वर्णतया सर्वजनप्रसिद्धेः पृथक्परि- गणनम् । तेषामपि ह्रस्वदीर्घभेदाः सन्त्येव । प्रयुज्यन्ते च ते वेदे क्वचित् शाखासु लोके च प्राकृतद्रमिडादिषु भाषासु च । संस्कृते तु तद्घटितपदाभावात् न माहेश्वरादिसूत्रेषु तत्परिगणनं कृतम् । शब्दचैष पृथिव्यादिभूतपञ्चकवर्ती । न वैशेषिकादीनामिवाकाशमात्रवर्ती, भेर्या शब्दः, गङ्गाप्रवाहे शब्द इत्यादि- प्रतीतेः । स चायं शब्द आकाशेन सहोत्पत्पद्यते विलीयते च ।
कृष्णमाचार्यः (En)
- The quality which is cognoscible by the sense of hearing is called Sound. It is of two kinds-lettered and non-lettered according to their production from the organs palate etc. and instruments drum etc. respectively. It abides in all the five elements.
मूलम्
श्रोत्रग्राह्यो गुणः शब्दो वर्णावर्णात्मना द्विधा ।
तालुभेर्यादिजत्वेन भूतपञ्चकवर्त्यसौ ॥ १०.५॥
विश्वास-प्रस्तुतिः
स्पर्शस् त्वग्-इन्द्रिय-ग्राह्यः
पृथिव्य्-आदि-चतुष्टये ।
शीतोष्णादि-प्रभेदस् तु
शास्त्रान्तर-निरूपितः ॥ १०.६॥
कृष्णमाचार्यः (सं)
स्पर्श लक्षयति-स्पर्श इति । स च पृथिव्यादिभूतचतुष्कवर्ती । स च शीतोष्णानुभयभेदात् त्रिधा । अप्सु शीतः, अग्नावुष्णः, पृथिवीवाय्वोरनुभय इति विवेकः । भूतान्तरसंसर्गात् स्पर्शसंकरानुभवः ।
[[११८]]
कृष्णमाचार्यः (En)
- The quality which is cognoscible by the sense It abides in the four of touch is called Touch. elements earth etc. Its division as cool, warm etc. has been described in other śastras.
मूलम्
स्पर्शस्त्वगिन्द्रियग्राह्यः पृथिव्यादिचतुष्टये ।
शीतोष्णादिप्रभेदस्तु शास्त्रान्तरनिरूपितः ॥ १०.६॥
विश्वास-प्रस्तुतिः
चक्षुरिन्द्रियनिर्ग्राह्यं
रूपम्, एतच् चतुर्विधम् …।
श्वेत-रक्ते पीत-कृष्णे
इति भेदाद्, द्विधा ऽऽदिमम्+++(→ श्वेतम्)+++ ॥ १०.७॥
कृष्णमाचार्यः (सं)
रूपं लक्षयति-चक्षुरिति । रूपस्य चातुर्विध्यं श्वेतादिना । श्वेतस्य द्वैविध्यमाह - द्विधादिममिति । ७
कृष्णमाचार्यः (En)
- The quality which is cognoscible by the sense of vision is called colour. It is of four kinds-white, red, yellow and black. Again the first (white) is of two kinds :
मूलम्
चक्षुरिन्द्रियनिर्ग्राह्यं रूपमेतच्चतुर्विधम् ।
श्वेतरक्ते पीतकृष्णे इति भेदाद् द्विधादिमम् ॥ १०.७॥
विश्वास-प्रस्तुतिः
भास्वराभास्वरत्वाभ्यां
भास्वरं तेजसि स्थितम् ।
पृथिवी-जलयोश् चैतद्
अभास्वरम् उदाहृतम् ॥ १०.८॥
कृष्णमाचार्यः (सं)
द्विविधमेव श्वेतरूपं निर्दिशति — भास्वरत्वेति । तेजसि भास्वरशुक्लम्, जले त्वभास्वरशुक्लमित्यर्थः । एवं च रूपं पृथिव्यादित्रिकवृत्तीत्युक्तं भवति । चित्रं नाम पञ्चमं रूपमिति वैशेषिकादयः ; तन्न, संघातवर्तिनामेषामेव तथा व्यवहारादिहेतुत्वात् ।
८
कृष्णमाचार्यः (En)
- One of them is brilliant and the other non- brilliant. The brilliant colour is seen in luminous things. The non-brilliant colour is said to exist in earth and water.
मूलम्
भास्वराभास्वरत्वाभ्यां भास्वरं तेजसि स्थितम् ।
पृथिवीजलयोश्चैतदभास्वरमुदाहृतम् ॥ १०.८॥
विश्वास-प्रस्तुतिः
रसनेन्द्रिय-निर्ग्राह्यो
रसः षोढा स कीर्तितः +++(मधुराम्ल-लवण-तिक्त-रूक्ष-कषाय-भेदात्)+++ ।
घ्राण-ग्राह्यो गुणो गन्धो
+++(सुरभ्यसुरभिभेदेन)+++ द्विधा शास्त्रान्तरेष्व् इव ॥ १०.९॥
कृष्णमाचार्यः (सं)
रसं लक्षयति—रसनेति । षोढेति । मधुराम्ललवणतिक्तरूक्षकषायभेदात् । एषामेव संघातश्चित्ररस इति न तस्य पृथक्परिगणनं कृतम् । गन्धं लक्षयति- [[११९]] घ्राणेति । अत्रापि गुण इति स्वरूपकथनं न लक्षणकोटिप्रविष्टम् । द्विधेति ; सुरभ्यसुरभिभेदेन द्विधेत्यर्थः । पटीरमृगमदादौ सुरभिः । विण्मूत्रादावसुरभिः । ९
कृष्णमाचार्यः (En)
- The quality which is cognoscible by the sense of taste is called Taste. It is said to be of six kinds. The quality which is cognoscible by the sense of smell is called Odour. It is held to be of two kinds like in other śastras.
मूलम्
रसनेन्द्रियनिर्ग्राह्यो रसः षोढा स कीर्तितः ।
घ्राणग्राह्यो गुणो गन्धो द्विधा शास्त्रान्तरेष्विव ॥ १०.९॥
विश्वास-प्रस्तुतिः
पृथिव्याम् एव गन्धः स्यात्
पृथिवी-जलयो रसः ।
पृथिवी-जल-तेजःसु
रूपं, स्पर्शः +++(पृथिवी-जल-तेजःसु)+++ स-वायुषु ॥ १०.१०॥
कृष्णमाचार्यः (सं)
गन्धादीनामाश्रयानाह—पृथिव्यामेवेति । जलादौ तत्प्रतीतिस्तु पृथिवी- भागसंसर्गकृता । सवायुष्विति ; वायुसहितेषु पृथिवीजलतेजः स्वित्यर्थः । १०
कृष्णमाचार्यः (En)
- Odour abides in earth only. Taste abides in earth and water. Colour abides in earth, water and luminous objects. Touch abides in all the three mentiond above and in wind.
मूलम्
पृथिव्यामेव गन्धः स्यात्पृथिवीजलयो रसः ।
पृथिवीजलतेजःसु रूपं स्पर्शः सवायुषु ॥ १०.१०॥
विश्वास-प्रस्तुतिः
शब्दः पञ्चसु भूतेषु
प्राधान्येनैवम् उच्यते ।
पञ्चीकरण-रीत्या तु
सर्वे सर्वत्र सङ्गताः ॥ १०.११॥
कृष्णमाचार्यः (सं)
पञ्चस्विति । पृथिव्यप्तेजोवाय्वाकाशेष्वित्यर्थः । इदं चाश्रयविशेषकथनं तत्र तत्र तत्तद्गुणभूयस्त्वनिबन्धनमित्याह - प्राधान्येनेति । पञ्चीकरणरीत्या तु सर्वे शब्दादयो गुणाः सर्वेष्वपि भूतेषु वर्तन्त इत्याह-पञ्चीकरणेति । पञ्चीकरण- प्रक्रिया तु प्रथमपरिच्छेदे व्याख्यातावगन्तव्या ।
११
कृष्णमाचार्यः (En)
- Sound abides in all the five elements. The above classification is based on their predominance. But according to the process of Pañcikarana (five- fold combination of the elements) all these qualities abide in all the five elements.
मूलम्
शब्दः पञ्चसु भूतेषु प्राधान्येनैवमुच्यते ।
पञ्चीकरणरीत्या तु सर्वे सर्वत्र सङ्गताः ॥ १०.११॥
[[१२०]]
विश्वास-प्रस्तुतिः
संयुक्त-प्रत्यये +++(संयुक्त-व्यवहारे च)+++ हेतुः
संयोग इति कथ्यते ।
कार्याकार्य-प्रभेदेन
स संयोगो द्विधा मतः ॥ १०.१२॥
कृष्णमाचार्यः (सं)
अनन्तरं संयोगाख्यम् अद्रव्यं निरूपयति-संयुक्तेति ।
घट-पटौ संयुक्ताव् इत्यादि-प्रत्यये व्यवहारे च
हेतुतया संयोगः सिध्यन्
संयुक्त-व्यवहार-हेतुत्वम् एव स्वस्य लक्षणम् अवगमयति ।
यद्य् अपि तादृश-व्यवहारे घट-पटाव् अपि विषयतया हेतू इति
तत्रातिव्याप्तिः प्रसजेत्,
तथापि लक्षण-कोटाव् अद्रव्यत्वस्यापि प्रक्षेपान्
न दोष इति हृदयम् ।
स च संयोगः कार्यः, अकार्यश्चेति द्विविधः ।
१२
कृष्णमाचार्यः (En)
- That is called Sariyoga (conjunction) which is the cause of the cognition of the substances as conjoined together. Conjunction is considered to be of two kinds-effected and non-effected.
मूलम्
संयुक्तप्रत्यये हेतुः संयोग इति कथ्यते ।
कार्याकार्यप्रभेदेन स संयोगो द्विधा मतः ॥ १०.१२॥
विश्वास-प्रस्तुतिः
+++(चन्द्रस्य)+++ मेष-हस्तादि-संयोगः
+++(कदाचिद् एव जायमानत्वात्)+++ कार्यो, ऽकार्यो विभोर् विभोः ।
विभु-द्वयस्य संयोगः
श्रुत्या युक्त्या च मन्यते ॥ १०.१३॥
कृष्णमाचार्यः (सं)
तत्र कार्य-संयोगम् आह – मेषेत्यादि ।
परिमितयोर्वस्तुनोः संयोगः
कदाचिद् एव तयोः क्रियया जायत
इति स कार्य इत्यर्थः ।
स च पुनर्द्विधा-उभयनिष्ठक्रिया- जन्यः, अन्यतरनिष्ठक्रियाजन्यश्चेति । तत्राद्यो मेषयोः हस्तयोर्वा संयोगः । द्वितीयः स्थाणुश्येनयोः संयोग इति ज्ञेयम् ।
अकार्यसंयोगमाह– विभोरिति ।
विभोर्विभोश्च संयोगोऽकार्य इत्यर्थः ।
वैशेषिकादयस् तु संयोग-सामान्यस्य जन्यत्वं मन्यमाना
विभु-द्वय-संयोगे तस्य नित्यत्व-प्रसङ्गात्
तं नाङ्गीकुर्वन्ति ।
तान् प्रत्याह- विभुद्वयस्येति ।
श्रुत्येति ; “अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः " इति श्रुत्या
विभोर् ईश्वरस्य विभ्व्-अन्तरेण संयोगस्य श्रुतत्वात् ।
युक्त्या चेति ; ईश्वरः कालसंयुक्तः कालनैरन्तर्यात् घटवत् इत्याद्यनुमानेनेत्यर्थः । वैशेषिकास्तु संयोगजसंयोगमपीच्छन्ति ; यथा- - हस्तपुस्तकसंयोगात् कायपुस्तकसंयोग इति; तन्न, अवयवपृथक्त्वेनावयव्यनङ्गीकारात् । यः किल हस्तपुस्तकसंयोग : स एव हस्ताद्यवयवसंघातरूपकायपुस्तकसंयोग इति न ततः पृथगिति भावः । १३
कृष्णमाचार्यः (En)
[[१२१]]
- The conjunction which is seen between the goat and the hand is the effected conjunction. The conjunction which is seen between two all-pervading things is the non-effected conjunction. The conjunction between two all-pervading things is accepted on the strength of the scripture and reasoning.
मूलम्
मेषहस्तादिसंयोगः कार्योऽकार्यो विभोर्विभोः ।
विभुद्वयस्य संयोगः श्रुत्या युक्त्या च मन्यते ॥ १०.१३॥
विश्वास-प्रस्तुतिः
तस्मात् कालस्येश्वरेण
संयोगोऽपि सुसम्मतः ।
संयोगाभावरूपो हि
विभागो न गुणान्तरम् ॥ १०.१४॥
कृष्णमाचार्यः (सं)
तदेवाह - तस्मादिति । श्रुतियुक्तिसद्भावादित्यर्थः । कालस्येश्वरस्य च विभुत्वेऽपि तयोः परस्परं संयोगः सम्यक्तया मन्तव्य इत्यर्थः । वैशेषिकादयो विभागाख्यं पृथग्गुणमिच्छन्ति । तान्निराकरोति - संयोगाभावेति । संयोगाभाव एव विभाग इत्युच्यते । अभावस्य च भावान्तररूपत्वात् पूर्वदेशसंयोगनाश- पूर्वकोत्तरदेशसंयोग एव विभाग इत्यर्थः ।
१४
कृष्णमाचार्यः (En)
- Therefore the conjunction between Iśvara and time is well approved. Disunion is only the absence of conjunction. Hence it is not a separate quality.
मूलम्
तस्मात्कालस्येश्वरेण संयोगोऽपि सुसम्मतः ।
संयोगाभावरूपो हि विभागो न गुणान्तरम् ॥ १०.१४॥
विश्वास-प्रस्तुतिः
सर्व-हेतुषु हेतुत्व-
निर्वोढ्री शक्तिर् इष्यते ।
मणि-मन्त्रादिकेष्व् एषा
प्रसिद्धा - सा त्व् अतीन्द्रिया ॥ १०.१५॥
कृष्णमाचार्यः (सं)
अथ शक्तिं निरूपयति-सर्वहेतुष्विति । हेतुनिष्ठः कार्योत्पादनयोग्यो धर्मविशेषः शक्तिरित्यर्थः । यथा वह्नौ दाहानुकूलो धर्मविशेषः शक्तिरित्युच्यते । तथा मणिमन्त्रादिषु दाहादिप्रतिबन्धजननसाधनभूतो गुणविशेषः शक्ति- रित्युच्यते । सा च नेत्रेन्द्रियग्राह्या । किं त्वागमादिग्राह्या । आगमश्च -
“ शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता । "
[[१२२]]
इत्यादिः । नन्वेवं तर्हि शब्देष्वर्थबोधनानुकूला शक्तिरङ्गीकरणीया। तथा सति शब्दस्य गुणाश्रयत्वात् द्रव्यत्वापत्तिरिति चेत्, अत्रोच्यते-शब्दे शक्तिर्नाम न काचिदतिरिक्ता शक्तिर्विद्यते। किं तु स स्वरूपेणैवार्थं बोधयति । व्याकरणादयस्तत्र सहकारिण इति नातिरिक्ता शक्तिस्तत्रेति । तथा चाहुः–
" शब्दादिष्वस्ति शक्तिर्यदि कथमिव न द्रव्यतैषां गुणित्वे
इति ।
सा चेन्नास्त्येव कार्य किमपि कथमितः स्यादितीदं न युक्तम् । शक्तिः शक्ता न वेति स्वयमवमृशतः स्वोक्तदोषप्रसङ्गे
निस्तारश्चेत्स्वभावात्फणिमरणमिह प्रस्तुते किं प्रवृत्तम् ॥ "
१५ अथ शक्तिं निरूपयति-सर्वहेतुष्विति । हेतुनिष्ठः कार्योत्पादनयोग्यो धर्मविशेषः शक्तिरित्यर्थः । यथा वह्नौ दाहानुकूलो धर्मविशेषः शक्तिरित्युच्यते । तथा मणिमन्त्रादिषु दाहादिप्रतिबन्धजननसाधनभूतो गुणविशेषः शक्ति- रित्युच्यते । सा च नेत्रेन्द्रियग्राह्या । किं त्वागमादिग्राह्या । आगमश्च -
“ शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता । "
[[१२२]]
इत्यादिः । नन्वेवं तर्हि शब्देष्वर्थबोधनानुकूला शक्तिरङ्गीकरणीया। तथा सति शब्दस्य गुणाश्रयत्वात् द्रव्यत्वापत्तिरिति चेत्, अत्रोच्यते-शब्दे शक्तिर्नाम न काचिदतिरिक्ता शक्तिर्विद्यते। किं तु स स्वरूपेणैवार्थं बोधयति । व्याकरणादयस्तत्र सहकारिण इति नातिरिक्ता शक्तिस्तत्रेति । तथा चाहुः–
" शब्दादिष्वस्ति शक्तिर्यदि कथमिव न द्रव्यतैषां गुणित्वे
इति ।
सा चेन्नास्त्येव कार्य किमपि कथमितः स्यादितीदं न युक्तम् । शक्तिः शक्ता न वेति स्वयमवमृशतः स्वोक्तदोषप्रसङ्गे
निस्तारश्चेत्स्वभावात्फणिमरणमिह प्रस्तुते किं प्रवृत्तम् ॥ "
१५
कृष्णमाचार्यः (En)
- Potency is that quality which helps the causation in all causes. This is seen in gems, mystical spell etc. But it is beyond the scope of the senses.
मूलम्
सर्वहेतुषु हेतुत्वनिर्वोढ्री शक्तिरिष्यते ।
मणिमन्त्रादिकेष्वेषा प्रसिद्धा सा त्वतीन्द्रिया ॥ १०.१५॥
विश्वास-प्रस्तुतिः
बुद्ध्यादयो+++(=बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्माख्याः)+++ ऽष्टौ +++([जीवेश्वरयोः] धर्म-भूत-)+++विज्ञाने
भावना+++(=परिचितार्थे बुद्धि-प्रसरः)+++ चान्तर् आविशन् ।
द्रवत्व+++(=fluidity)+++-स्नेह-सङ्ख्यान-
परिमाणानि वेगकः …॥ १०.१६॥
कृष्णमाचार्यः (सं)
वैशेषिकाद्य्-अभिमतानां बुद्ध्य्-आदिगुणानां धर्म-भूत-ज्ञानेऽन्तर्भावम् आह – बुद्धया- दय इति । अष्टाविति ।
बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्माख्याः,
तथा वासनाख्यः संस्कार इति नवापि गुणा ज्ञानेऽन्तर्भवन्ति ।
तत्र बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्नाः षड् अपि ज्ञान-विकाररूपा इति ज्ञान एवान्तर्भवन्ति ।
धर्माधर्माव् अपीश्वर-प्रीत्य्-अप्रीति-रूपाव् इतीश्वर-ज्ञानेऽन्तर्भवतः ।+++(5)+++
वासनाख्यः संस्कारोऽपि ज्ञानावस्था-विशेषः स्मृतिवत् ।
एवं च धर्म-भूत-ज्ञानस्य द्रव्यत्वेन
तस्य विविधावस्थास्पदत्वं युज्यते ।
[[१२३]]
तत्रात्मा निर्विकारः ।
धर्म-भूत-ज्ञानं तु सविकारम् इति प्रमाण-संप्रतिपन्नम् ।
धर्म-भूत-ज्ञान-गताः सर्वे विकारा
ज्ञान-द्वारा तद्-आश्रयात्म-पर्यन्तं व्यवह्रियन्त
इत्य् अवगन्तव्यम् ।
अत्रेदं बोध्यम् –
बुद्ध्य्-आदीनाम् अष्टानां बुद्धि-विकारत्वात्
तेषाम् आत्म-निष्ठत्वं युज्यते ।
भावना तु ज्ञान-निष्ठैव, नात्म-निष्ठा ।
सा हि बुद्धेर् द्रव्यस्य
पूर्वम् अर्थविशेषे सकृत्-प्रसृतस्य
पुनस् तत्रैवार्थ-विशेषे तस्य प्रसरणोपयोगिनीति सिद्धान्तः।
तथा च तस्या बुद्धि-निष्ठत्वम् एवोचितम्।
आत्म-निष्ठत्वे तु तद्-धर्म-भूत-धी-विकास-हेतुत्वं तस्याः कथ्यमानं
न युक्तिम् अनुसरतीति ।
कृष्णमाचार्यः (En)
16-18. The eight qualities viz. cognition, etc. and reminiscence are included in Consiousness.
मूलम्
बुद्ध्यादयोऽष्टौ विज्ञाने भावना चान्तराविशन् ।
द्रवत्वस्नेहसङ्ख्यानपरिमाणानि वेगकः ॥ १०.१६॥
विश्वास-प्रस्तुतिः
… द्रव्य-स्वरूप-रूपत्वान् +++(तत्रैव परिगणनीयत्वान्)+++
नाधिक्यं यान्ति केवलम् ।
स्थित-स्थापकम्+++(=Elastic distension)+++ एतस्मिन्
संयोगे ऽन्तर् भवत्य् अतः ॥ १०.१७॥
कृष्णमाचार्यः (सं)
द्रवत्व-स्नेह-संख्या-परिमाण-वेगा द्रव्य-स्वरूपान् नातिरिच्यन्ते,
तावतैव प्रतीति-व्यवहारयोर् उपपत्तेः ।
एवं स्थित-स्थापकम्+++(=Elastic distension)+++ अप्य् अवयव-संयोग-विशेष एव,
नातिरिक्तम् ।
एतेन वेगो भावना स्थितस्थापकमिति त्रिविधः संस्कार इति वैशेषिकमतमपास्तम् ।
कृष्णमाचार्यः (En)
Fluidity, vicidity, number, size and speed are nothing but the nature of the relevant substances. Therefore they do not exceed the number of qualities enumerated.
मूलम्
द्रव्यस्वरूपरूपत्वान्नाधिक्यं यान्ति केवलम् ।
स्थितस्थापकमेतस्मिन् संयोगेऽन्तर्भवत्यतः ॥ १०.१७॥
विश्वास-प्रस्तुतिः
संयोगाभाव-रूपत्वात्
पृथक्त्वस्य विभागवत् +++(न पुनः परिगणनीयता)+++ ।
गुरुत्वस्यापि शक्तित्वान्
+++(परिगणनीयतायां)+++ नाधिक्यं क्वापि विद्यते ॥ १०.१८॥
कृष्णमाचार्यः (सं)
पृथक्त्वस्यातिरिक्तगुणतां निरस्यति—संयोगाभावेति ।
यथा संयोगाभावरूपो विभाग इति
तस्य न पार्थक्यम् अङ्गीकृतं,
तद्वत् पृथक्त्वस्यापीति भावः ।
एवं गुरुत्वम् अपि पतनानुकूल-शक्ति-रूपम् इति
न शक्तेर् अतिरिच्यते ।
१६-१८
कृष्णमाचार्यः (En)
Elasticity is included in conjunction. Like disunion, separateness also is of the nature of the absence of contact. Weight also is a kind of potency. Therefore these is no separate quality in excess of the qualities enumerated.
मूलम्
संयोगाभावरूपत्वात्पृथक्त्वस्य विभागवत् ।
गुरुत्वस्यापि शक्तित्वान्नाधिक्यं क्वापि विद्यते ॥ १०.१८॥
विश्वास-प्रस्तुतिः
कर्मणाम्+++(=संयोग-विभाग-जनकानां)+++ अपि शक्तित्वं
केचिद् आहुर् मनीषिणः ।
पदार्थान्तरताम् अन्ये
प्राहुर् वेदान्त-वेदिनः ॥ १०.१९॥
कृष्णमाचार्यः (सं)
अथ वैशेषिकाद्य्-अभिमतं कर्म-पार्थक्यं निराचष्टे –कर्मणामिति ।
संयोग-विभाग-जनकं कर्म ।
तच्च उत्क्षेपणावक्षेपणाकुञ्चन-प्रसारण-गमन-भेदेन पञ्च-विधम्
इति वैशेषिकाः कथयन्ति।
[[१२४]]
तन् न, उत्तर-देश-संयोगानुकूल-शक्तेर् एव कर्मत्वात् ।
पञ्च-विधत्वोक्तिर् अपि न सम्यक् ।
उत्क्षेपणम् ऊर्ध्व-देश-प्रक्षेपः,
अवक्षेपणम् अधो-देश-प्रक्षेप इत्य्-आदि-रीत्या भेदश् चेत्
प्राच्यादि-दिग्-भेदेनापि विभाग-प्रसङ्गः ।
अत उत्तर-देश-संयोगानुकूला शक्तिर् एव
कर्मेत्य् एतावता संतोष्टव्यम् ।
त एव वैशेषिकाः कर्मणाम् असमवायि-कारणत्वम् आहुः।
तन् न, समवायि-निमित्त-सहकार्य्-अतिरिक्तस्यासमवायि-कारणस्याप्रसिद्धेः ।
यदि समवायि-कारण-प्रत्यासन्नं कारणम् असमवायि-कारणम् इति परिभाष्यते,
तदा निमित्त-कारण-प्रत्यासन्नम् अनिमित्त-कारणम् इति किंचित् प्रकल्प्येत ।
न हि तद् अस्ति ।
तस्मात् तद् अप्य् अप्रामाणिकम् इति मन्तव्यम् ।
इत्थं कर्मणां शक्ताव् अन्तर्भावम् उपपाद्य
केषांचिद् वेदान्तिनां मतेन
कर्मणां पार्थक्यमाह – पदार्थान्तरतामिति ।
अयम् अत्र पृथक्-परिगणयतां भावः -
विभाग-पूर्वकोत्तर-संयोगानुकूला शक्तिः कर्मेति पक्षे
एकेन जल-धरेण विभज्यमाने जल-धरान्तरेण,
तेन वा पुनः संयुज्यमान-शिलोच्चये
चलतीति प्रत्यय-व्यवहारयोः प्रसङ्गः ।
यदि देश-पद-प्रक्षेपेण पूर्व-देश-विभाग-पूर्वकोत्तर-देश-संयोगेत्यादिना लक्ष्यते,
तदा ऽपि महा-प्रवाह-पतित-निष्कम्प-मकरे चलतीति प्रत्यय-प्रसङ्गः ।
तस्मात् कर्माख्यं पदार्थान्तरम् अङ्गीकरणीयम् इति ।
१९
कृष्णमाचार्यः (En)
- Some wise men say that Karman (action) also is included in potency. But other Vedantins say that it is a separate quality.
मूलम्
कर्मणामपि शक्तित्वं केचिदाहुर्मनीषिणः ।
पदार्थान्तरतामन्ये प्राहुर्वेदान्तवेदिनः ॥ १०.१९॥
विश्वास-प्रस्तुतिः
प्राचीन-ग्रन्थ-पदवीम्
अनुसृत्य यथा-मति ।
विशिष्टाद्वैत-सिद्धान्त-
फक्किका+++(=सङ्क्षेपः)+++ +इत्थं निदर्शिता ॥ १०.२०॥
कृष्णमाचार्यः (सं)
ग्रन्थमुपसंहरति - प्राचीनेति । प्राचीनग्रन्थोऽत्र न्यायसिद्धाञ्जनादिः ।
फक्किकेत्य् अनेन विस्तर-भिया केवलं दिक्-प्रदर्शनं कृतमित्युक्तं भवति । २०
कृष्णमाचार्यः (En)
- Following the way of the earlier texts, the logical exposition of the Viśiṣṭadvaita system is exemplified to the best of my judgment.
मूलम्
प्राचीनग्रन्थपदवीमनुसृत्य यथामति ।
विशिष्टाद्वैतसिद्धान्तफक्किकेत्थं निदर्शिता ॥ १०.२०॥
विश्वास-प्रस्तुतिः
अण्णयार्याध्वरीन्द्रस्य
तार्तीयीक-तनू-भुवा ।
श्रीमद्-वेङ्कट-दासेन
निर्मिता कारिकावली ॥ १०.२१॥
कृष्णमाचार्यः (सं)
स्वस्याभिजनसंपत्तिमाह–अण्णयार्येति । तातयीक इति । “तीयादीकक् स्वार्थे” इतीकक्प्रत्यये रूपम् । वेंकटदासेनेति स्वनामनिर्देशः । कारिकावलीति ग्रन्थनाम ।
२१
कृष्णमाचार्यः (En)
- This string of concise verses has been composed by Venkaṭadāsa, the third son of Annayarya.
मूलम्
अण्णयार्याध्वरीन्द्रस्य तार्तीयीकतनूभुवा ।
श्रीमद्वेङ्कटदासेन निर्मिता कारिकावली ॥ १०.२१॥
[[१२५]]
विश्वास-प्रस्तुतिः
निरमायि रमायत्त-
परमाद्भुत-तेजसः ।
मुदम् आधातु-कामेन
मयेयं कारिकावली ॥ १०.२२॥
कृष्णमाचार्यः (सं)
स्वस्य ग्रन्थकरणे परमं प्रयोजनं भगवत्-प्रीतिर् एकैवेत्य् आह- निरमायीति ।
रमायत्तेति ।
भगवतः सर्वोऽपि महिमातिशयो महा-लक्ष्मी-संबन्ध-कारित इति भावः ।
यथोक्तम्, “अप्रमेयं हि तत् तेजो यस्य सा जनकात्मजा " इति ।
स्वतः-प्रामाण्य-मूर्धाभिषिक्तया श्रुत्या ऽपि
विध्य्-आदिसाधारण्येन संशयास्पदे
पर-तत्त्व-निर्णये चिकीर्षिते,
“ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ” इति विनिर्दिश्य,
लक्ष्मीपतित्व-पुरस्कारेणैव हि तस्मिन् पर-देवतात्वं निर्णेतव्यम् आसीत् ।
अमुम् एवाशयम् अभियुक्ताः सरसयोक्त्या ऽऽविष्कुर्वन्ति । यथा-
“अपाङ्गा भूयांसो यद्-उपरि, परं ब्रह्म तद्-अभूद्,
अमी यत्र द्वित्राः, स च शत-मखादिस्, तद्-अधरात् ।
अतः श्रीर्! आम्नायस् तद्-उभयम् उशंस् त्वां प्रणिजगौ
+++(यतो ननु)+++ प्रशस्तिः सा राज्ञो - यद् अपि च पुरी-कोश-कथनम् ॥”+++(5)+++
इति ।
२२
कृष्णमाचार्यः (En)
- This string of concise verses was composed by me with a desire to please the Lord of great marvellous lustre which is dependent on Lakṣmi.
मूलम्
निरमायि रमायत्त-
परमाद्भुत-तेजसः ।
मुदम् आधातु-कामेन
मयेयं कारिकावली ॥ १०.२२॥
[[१२६]]
विश्वास-प्रस्तुतिः
भक्ति-प्रपत्त्योर् अधिदेवताभ्याम्
इवाब्ज-नाभस्य पदाम्बु-जाभ्याम् ।
समर्पये ऽस्मन्-मत-कारिकावलीं
तद्-अङ्गुली-सङ्ख्य-निरूपणाढ्याम् ॥ १०.२३॥
कृष्णमाचार्यः (सं)
“यत्करोषि यदश्नासि
यज्जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय
तत्कुरुष्व मद्-अर्पणम् ॥”
इत्युक्तरीत्या सात्त्विकत्यागं कुर्वन् स्वग्रन्थं भगवत्पादाम्बुजयोः समर्पयति—– भक्तीति । पदाम्बुजाभ्यामिति चतुर्थी । पदाम्बुजे प्रीणयितुमित्यर्थः । “ क्रियार्थोपपदस्य च ” इत्यादिना चतुर्थी । तदङ्गुलीति तच्छब्देन पदाम्बुजे विवक्षिते । तदङ्गुलीसंख्या दश । दशसंख्याकनिरूपणैराढ्यामित्यर्थः । २३
कृष्णमाचार्यः (En)
- I dedicate at the lotus-feet of the Lord (having the lotus in the navel) which feet seem as presiding deities of Devotional meditation and Self-surrender, the string of concise verses of our system of thought, whose chapters are in the same number as that of the fingers of those feet.
मूलम्
भक्तिप्रपत्त्योरधिदेवताभ्या-
मिवाब्जनाभस्य पदाम्बुजाभ्याम् ।
समर्पयेऽस्मन्मतकारिकावलीं
तदङ्गुलीसङ्ख्यनिरूपणाढ्याम् ॥ १०.२३॥
विश्वास-प्रस्तुतिः
यः श्रीमच्–छठ-मर्षणान्वय-पयः-सिन्धोः सुधांशुर् महान्
अण्णार्यः समभूद् विभूषित-+++(न्याय-व्याकरण-मीमांसा-शारीरकाख्य-)+++चतुस्-तन्त्रो वचः-कान्तिभिः ।
तस्यासौ तनयः समार्जित-नयः श्रीवेङ्कटार्यः सुधीः
श्रुत्य्-अन्तान्वय-कारिकालिम् अकरोत् प्रीत्यै महत्यै सताम् ॥ १०.२४॥
कृष्णमाचार्यः (सं)
य इति ।
स्वग्रन्थस्य श्रद्धेयताभिव्यक्त्यै स्वाभिजनादिसंपत्ति वर्णयति- यः शठमर्षणवंशादेव क्षीरसमुद्रादुदितश्चन्द्रोऽभूत्, येन च चतुस्तन्त्री
१२७
न्याय-व्याकरण-मीमांसा-शारीरकाख्य-शास्त्रचतुष्टयं वचः कान्तिभिर्विभूषिता अलंकृता, तस्य अण्णयार्यस्य तनयः सदाचार्यसेवासमधिगतनयसरणिः वेंकटाचार्यनामा सुधीः वेदान्तकारिकावलीनामकमिमं ग्रन्थं सतां महत्यै प्रीत्यै अकरोदित्यर्थः । २४
इति वेदान्तकारिकावल्यामद्रव्यनिरूपणं दशमं प्रकरणम् प्रमेयनिरूपणं समाप्तम्
कृष्णमाचार्यः (En)
- Great Annayārya who was the moon of the milky ocean of the family of S’athamarṣaṇa, beautified the four śastras with his brilliance of expression. His son Venkaṭārya of great intellect, well equipped with the philosophical thought, wrote this string of concise verses on Vedanta to the entire satisfaction of the good.
मूलम्
यः श्रीमच्छठमर्षणान्वयपयः सिन्धोः सुधांशुर्महा-
नण्णार्यः समभूद्विभूषितचतुस्तन्त्रो वचःकान्तिभिः ।
तस्यासौ तनयः समार्जितनयः श्रीवेङ्कटार्यः सुधीः
श्रुत्यन्तान्वयकारिकालिमकरोत्प्रीत्यै महत्यै सताम् ॥ १०.२४॥
कृष्णमाचार्यः (सं)
इति श्रीमच्छ्ठमर्षणान्वय-पयोधि-चन्द्रमः–षड्-दर्शनी-पार-दृश्वनो
ऽण्णयार्य-सोम-पीथिनस् तृतीय-सुतेन बुच्चि-वेंकटाचार्येण विरचितायां
वेदान्त-कारिकावल्याम् अद्रव्य-निरूपणं नाम दशमं प्रकरणम्
कृष्णमाचार्यः (En)
Thus here ends the tenth chapter entitled the treatment of non-substance, of the work called the Vedantakarikavali composed by Bucci Venkaṭācārya, the third son of Anṇayaryasomapithin, who was the moon of the ocean of S’athamarṣaṇa family and seer of other shore of six darsanas.
कृष्णमाचार्यः (सं)
C and D read the following verses after the colophon :
शृणु वेंकटशैलशेखराग्रे
कृतवासं नृहरे भवन्तम् अद्य ।
निशितेन मद्-आत्मना शरेण
प्रणिविध्यामि हृदन्तरेऽवधेहि ॥
रामानुजार्यौरस-सत्-तनूजैः
स्थितैः सु-नारायण-वाटिकायाम् ।
मुक्तावलीयं महद्-आर्य-नामभिर्
दृष्टा परिष्कारवती बभूव ॥